________________
ज्ञानार्णवः ..
[३१.१२1651 ) जन्मनः प्रतिपक्षस्य मोक्षस्यात्यन्तिकं सुखम् ।
अव्याबाधं स्वभावोत्थं केनोपायेन लभ्यते ॥१२ 1652 ) मय्येवे विदिते साक्षाद्विज्ञातं भुवनत्रयम् ।
यतो ऽहमेव सर्वज्ञः सर्वदर्शी निरञ्जनः ॥१३ 1653 ) उक्तं च
एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः । एको भावस्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः॥१३*१॥ इति
1651) जन्मनः-मोक्षस्य सुखं केनोपायेन लभ्यते । कीदृशम् । आत्यन्तिकम् । कीदृशमोक्षस्य । जन्मनः प्रतिपक्षस्य प्रतिकूलस्य । कीदृशं सुखम् । अव्याबाधं निराबाधम् । पुनः कीदृशम् । स्वभावोत्थं स्वभावाज्जातम् । इत्यर्थः ।।१२।। अथ पुनरात्मस्वरूपमाह।
___1652) मय्येव-मय्येव आत्मन्येव साक्षात् विदिते जाते भुवनत्रयं विज्ञातम् । यतः कारणादहमेव सर्वज्ञः, सर्वदर्शी, निरञ्जनः । इति सूत्रार्थः ।।१३।। उक्तं च शास्त्रान्तरे।
___1653) एको भाव:-एको भावः पदार्थः सर्वभावः सर्वपदार्थस्वभावो भवति । एको भावः पदार्थः तत्त्वतः परमार्थतः येन बुद्धो ज्ञातः, सर्वे भावाः पदार्थाः तत्त्वतः तेन बुद्धा ज्ञाताः । यथा एको घट: सर्वघटस्वभावः । सर्वघटस्वभावः एको घटः । येन परमार्थतः एको घटो ज्ञातः कम्बुग्रीवादिमत्त्वासाधारणलक्षणेन तथा तेनैव तत्त्वतः सर्वे घटाः तेनैव लक्षणेन ज्ञाताः। इत्याद्यास्तां विस्तरः । प्रकृतमेवोच्यते । इति सूत्रार्थः ।।१३*१॥ अथ स्वस्मिन् स्वज्ञानाभावमाह ।
संसारके प्रतिपक्षभूत मोक्षका जो शाश्वतिक, निर्बाध और स्वाभाविक सुख है वह किस उपायसे प्राप्त हो सकता है ? ॥१२॥
मेरे अपने आपको जान लेने पर मैंने साक्षात् तीनों ही लोकोंको जान लिया। कारण यह कि मैं स्वयं ही तो सर्वज्ञ, सर्वद्रष्टा और निर्लेप-कर्म-कालिमासे रहित हूँ ॥१३॥
कहा भी है
एक पदार्थ सब पदार्थस्वरूप है तथा सब पदार्थ एक पदार्थस्वरूप हैं । इसलिए जिसने वस्तुतः एक पदार्थको जान लिया है. उसने यथार्थ में सब ही पदार्थोंको जान लिया है। विशेषार्थ-अभिप्राय यह है कि आत्मा अनन्त ज्ञानदर्शनस्वरूप है। वह जब इस आत्मस्वरूपमें अवस्थित होता है तब लोकके सब ही पदार्थ उसमें प्रतिबिम्बित होते हैं । इस अपेक्षा से एक ही आत्मा सब पदार्थस्वरूप और सब पदार्थ एक आत्मस्वरूप कहे जाते हैं। इसीलिए जिस भव्य जीवने एकमात्र अपने आपको यथार्थ रूपसे जान लिया उसने वस्तुतः सब ही पदार्थोंको जान लिया है, यह कहना सर्वथा योग्य है ॥१३११॥
१. M मयैव । २. P M इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.