________________
XXXII
[ विपाकविचयः] 1958 ) स विपाक इति ज्ञेयो यः स्वकर्मफलोदयः ।
प्रतिक्षणंसमुद्भूतश्चित्ररूपः शरीरिणाम् ॥१ 1659 ) कर्मजातं फलं दत्ते विचित्रमिह देहिनाम् ।
आसाद्य नियतं नाम द्रव्यादिकचतुष्टयम् ॥२॥ तद्यथा1660 ) स्रक्शय्यासनयानवस्त्रवनितावादित्रमित्राङ्गजान्
कर्पूरागुरुचन्द्रचन्दनवनक्रीडाद्रिसौधध्वजान् । 1658) स विपाकः-शरीरिणां जीवानां चित्ररूपः नानाप्रकारः। शेषं सुगमम् । इति सूत्रार्थः ।।१।। अथ पुनरेतदेवाह।
1659) कर्मजातं-नामेति कोमलामन्त्रणे । द्रव्यादिचतुष्टयम् आसाद्य प्राप्य। नियतं निश्चितम् । इह जगति देहिनां प्राणिनां विचित्रं कर्मजातं फलं दत्ते। इति सूत्रार्थः ।।२।। तद्यथा दर्शयति । शार्दूलविक्रीडितम् ।
1660) स्त्रक्शय्या-अङ्गिनः प्राणिनः वस्तुनिचयानुपगम्य प्राप्य सौख्यं श्रयन्ति आश्रयन्ति । कान् वस्तुनिचयान् । स्रक्शय्यासनवस्त्रवनितावादिमित्राङ्गजान् सक् पुष्पमाला, शय्या पर्यङ्कादि, आसनं सिंहासनादि, यानं वाहनं, वस्त्रं पट्टकूलादि, वनिताः स्त्रियः, वादित्रं घनततविततादि, मित्रं प्रेमपात्रम्, अङ्गजाः पुत्राः, तेषां समाहारः । तान् उपगम्य प्राप्य । कर्पूरागुरुचन्द्रचन्दनवनक्रीडादिसौधध्वजान् । कर्पूरागुरू प्रसिद्धौ । चन्द्रः अत्यन्तश्वेतकर्पूरः । चन्दनवनक्रीडा चन्दनादिवनविहारः।
प्राणियों के प्रतिसमयमें जो अनेक प्रकारका अपने कर्मों के फलका उदय उत्पन्न होता है उसे विपाक जानना चाहिए। अभिप्राय यह है कि पूर्व में बाँधे गये ज्ञानावरणादि कर्म उदयको प्राप्त होकर जो प्रतिसमयमें ज्ञानादिके आवरण करने आदिरूप फल दिया करते हैं उसका नाम विपाक है ॥१॥
संसारमें प्राणियोंके द्वारा बाँधा गया कर्मोंका समूह द्रव्य, क्षेत्र, काल और भाव इन चारका आश्रय पाकर नियमसे सुख-दुःख आदिके उत्पादनरूप अनेक प्रकारके फलको दिया करता है ॥२॥
जैसे द्रव्यका आश्रय पाकर-माला, शय्या (पलंग व गादी आदि), आसन, रथ आदि सवारी, वस्त्र, स्त्री, वीणा आदि वादित्र, मित्र, पुत्र, कपूर, अगुरु, चन्द्र, चन्दन, वन१. J क्षणं । २. T रूपं । ३. J तद्व्यादिचत्। ४. PM तद्यथा । ५. M रागर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org