________________
-३८ ]
२८. सवीर्यध्यानम्
1511 ) यदज्ञानाजन्मी भ्रमति नियतं जन्मगहनं विदित्वा यं सद्यस्त्रिदशगुरुतो याति गुरुताम् । स विज्ञेयः साक्षात्सकलभुवनानन्दनिलयः परं ज्योतिस्त्राता परमपुरुषो ऽचिन्त्यचरितः || ३७ 1512 ) इत्थं यत्रानवच्छिन्नभावनाभिर्भवच्युतम् ।
3
भावयत्यनिशं ध्यानी तत्सवीजं प्रकीर्तितम् || ३८ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य - श्री - शुभचन्द्र- विरचिते संवीर्यध्यानप्रकरणम् ||२८||
1511) यदज्ञानात् - यदज्ञानात् परमात्माज्ञानात् जन्मी भ्रमति जन्मगहनं संसारारण्यम् । नियतं निश्चितम् । यमात्मानं सद्यः शीघ्रं विदित्वा ज्ञात्वा । त्रिदशगुरुतो बृहस्पतेः सकाशात् गुरुतां गरिष्ठत्वं याति स विज्ञेयो ज्ञातव्यः । कीदृशः । साक्षात् सकलभुवनानन्दनिलयः । स्थानं परं ज्योतिः । त्राता रक्षकः । परमपुरुषो ऽचिन्त्यचरितः । इति सूत्रार्थः ||३७|| अथ परमात्मस्वरूपस्य सवीर्यत्वमाह ।
1512) इत्थं यत्र - इत्थम् अमुनाप्रकारेण अनवच्छिन्नभावनाभिर्भवच्युतं यत्र भावयति अनिशं ध्यानी तत्सवीर्यं प्रकीर्तितम् ||३८||
इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा - तत्पुत्र-साहटोडर-तत्कुल- कमलदिवाकर साहऋषिदासस्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितं सुबीजध्यानप्रकरणं समाप्तम् ||२८|| कल्याणसंपादनकल्पवृक्षः पुराभवत् पार्श्वविचारदक्षः । स टोडरः सर्वगुणप्रशस्यः गाङ्गेयनीराविव शुद्धकीर्तिः । जीयात्सदा श्रीरिषिदाससाहः । इत्याशीर्वादः । अथवा |
५०५
जिस परमात्माविषयक अज्ञानके कारण प्राणी सदा संसाररूप वनमें भटकता रहता है तथा जिसके स्वरूपको जानकर वह शीघ्र ही बृहस्पतिकी अपेक्षा भी अधिक गौरवको प्राप्त होता है - मुक्त हो जाता है - वह परमात्मा जाननेके योग्य है । उक्त परमात्मा समस्त लोकके-सब ही प्राणियोंके - आनन्दका गृहस्वरूप केवलज्ञानरूप सर्वोत्कृष्ट प्रकाशसे संयुक्त, प्राणियों का दुखसे उद्धार करनेवाला, पुरुषोंमें श्रेष्ठ पुरुष और अचिन्त्य चरित्रवाला है ||३७||
Jain Education International
इस प्रकार से ध्यान करनेवाला योगी जिस ध्यानमें अविश्रान्त भावनाओंके द्वारा संसारसे मुक्त हुए उस परमात्माका निरन्तर चिन्तन करता है वह सबीज ( सवीर्य ) ध्यान कहा जाता है ||३८||
इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकारमें सवीर्यध्यान प्रकरण समाप्त हुआ ||२८||
१. All others except PM N गहने । २. X 'भिर्निरन्तरं । ३. N X ध्यानं । ४. N सुबीजं, LS T F X Q R सवीर्यं । ५. MN सुबीजध्यान प्रकरणम् ।
६४
For Private & Personal Use Only
www.jainelibrary.org