________________
-४८ ]
२६. प्राणायामः
1348 ) निरुणद्धि स्थिरीकृत्य वसनं नाभिपङ्कजे । कुम्भवन्निर्भरः सो ऽयं कुम्भकः परिकीर्तितः ।। ४५ 1349 ) निःसार्यते ऽतियत्नेन यः कोष्ठाच्छ्वसनः शनैः । स रेचक इति प्राज्ञैः प्रणीतः पवनागमे ॥ ४६ 1350 ) नाभिकन्दाद्विनिष्क्रान्तं हृत्पद्मोदरमध्यगम् ।
५
द्वादशान्ते तु विश्रान्तं तं ज्ञेयं परमेश्वरम् ||४७ 1351 ) तस्यै चारं गतिं बुद्ध्वा संस्थां चैवात्मनः सदा । चिन्तयेत् कालमायुश्च शुभाशुभफलोदयम् ||४८
1348 ) निरुणद्धि – यः योगी श्वसनं स्थिरीकृत्य निरुणद्धि नाभिपङ्कजे । कुम्भवत् निर्भर: सोऽयं अयं स कुम्भकः परिकीर्तितः । इति सूत्रार्थः || ४५ || अथ रेचकमाह ।
1349) निःसार्यते प्राज्ञः स इति रेचकः पवनागमे ध्यानशास्त्रे प्रणीतः । स इति कः । यः कोष्ठात् उदरात् शनैः शनैरिति यत्नेन श्वसनो वायुः निःसार्यते । इति सूत्रार्थः ॥ ४६ ॥ अथ परमेश्वरं शरीरान्तरे एव दर्शयति ।
1350 ) नाभिकन्दात् - तं परमेश्वरं द्वादशान्ते तु विश्रान्तं स्थितम् । कीदृशम् । नाभिकन्दाद्विनिष्क्रान्तं नाभिमूलाद्विनिर्गच्छन्तम् । पुनः कीदृशम् । हृत्पद्मोदरमध्यगं हृदये पद्ममध्यस्थितम् । इति सूत्रार्थः || ४७ || अथ वायोश्चारेणात्मशुभाशुभफलं चिन्तयति ।
1351 ) तस्य चारं तस्याचारं * विनिर्गमः तम् । तस्यैव गतिं बुद्ध्वा ज्ञात्वा । सदा निरन्तरम् आत्मनः संस्थामवस्थिति चिन्तयेत् । च पुनः । आत्मनः कालं चकारात् आयुरपि चिन्तयेत् विचारयेत् । आत्मनः शुभाशुभफलोदयम् । सुगमम् । इति सूत्रार्थः ||४८|| अथ वायोरभ्यासेनात्मनश्चेष्टितं जानाति ।
४५९
उस वासवायुको स्थिर करके जो नाभिरूप कमलके भीतर घड़े के आकार में अतिदृढ़तापूर्वक रोका जाता है उसे कुम्भक प्राणायाम कहा जाता है ||४५||
वायुको जो उदर के भीतरसे अतिशय प्रयत्नपूर्वक बाहर निकाला जाता है उसे वायुशास्त्र में विद्वानोंने रेचक प्राणायाम कहा है || ४६ ||
जो श्वासवायु नाभिरूप कन्दसे निकलकर हृदयरूप कमलके मध्य में प्राप्त होती हुई द्वादशान्त (ब्रह्मरन्ध्र ) में विश्रान्त होती है उसे परमेश्वर जानना चाहिए || ४७||
Jain Education International
उक्त वायुके चार, गति और संस्थाको जानकर निरन्तर शुभ-अशुभ फलकी उत्पत्ति युक्त अपने काल और आयुका विचार करना चाहिए । विशेषार्थ - नाभिसे वायुके निकालने का नाम चार है । उस वायुको हृदयके मध्यमें ले जाना, इसे गति कहा जाता है । तथा इस वायुका ब्रह्मरन्ध्र में अवस्थित रहना, इसका नाम संस्था है ||४८||
१. T निःकार्यते । २. All others except PMN TK यत्कोष्ठाच्छ्वसनः । ३.LSFR नाभिष्कन्धात् । ४. LSYR सुविश्रान्तं, T F नुवि । ५. LTY R तज्ज्ञेयं । ६. K तस्याचारं ।
For Private & Personal Use Only
www.jainelibrary.org