________________
४६२
ज्ञानार्णवः
[२६.५५- .
1360 ) यः प्राणायाममध्यास्ते स मण्डलचतुष्टयम् । - निश्चिनोतु यतः साध्वी ध्यानसिद्धिः प्रजायते ॥५५ 1361 ) घोणाविवरमध्यास्य स्थितं पुरचतुष्टयम् ।
पृथक् पवनसंवीतं लक्ष्यलक्षणभेदतः ॥५६ 1362 ) अचिन्त्यमतिदुर्लक्ष्यं तन्मण्डलचतुष्टयम् ।
स्वसंवेद्यं प्रजायेत महाभ्यासात् कथंचन ॥५७ 1363 ) तत्रादौ पार्थिवं ज्ञेयं वारुणं तदनन्तरम् ।
मरुत्पुरं ततः स्फीतं पर्यन्ते' वह्निमण्डलम् ॥५८
1360 ) यः प्राणायामम्-यः प्राणायामम् अध्यास्ते आश्रितः। कीदृशं प्राणायामम् । समण्डलचतुष्टयम् । सुगमम् । यतः कारणात् ध्यानसिद्धिः साध्वी प्रजायते । इति सूत्रार्थः ॥५५।। अथ तस्यैव स्वरूपमाह।
1361 ) घोणाविवरम्-पुरचतुष्टयं स्थितम् । किं कृत्वा। घोणाविवरमध्यास्य । पृथक्पवनसंवीतं वायुव्याप्तं लक्ष्यलक्षणभेदतः । इति सूत्रार्थः ॥५६॥ अथ पुनरेतदेवाह ।
1362 ) अचिन्त्यम्-तन्मण्डलचतुष्टयं स्वसंवेद्यं प्रजायेत कथंचन । कस्मात् । महाभ्यासात्। कीदृशम् । अचिन्त्यम् । पुनः कीदृशम् । अतिदुर्लक्षम् । इति सूत्रार्थः ।।५७।। अथ मण्डलचतुष्टय
मेवाह ।
___1363 ) तत्रादौ-तत्र मण्डलचतुष्टये आदौ पार्थिवं मण्डलम् । तदनन्तरं वारुणम् । ततः मरुत्पुरं वायुमण्डलम् । पर्यन्ते प्रान्ते वह्निमण्डलम् । इति सूत्रार्थः ।।५८।। अथ पार्थिवमाह ।
___ जो योगी प्राणायामको अधिष्ठित करता है-उसे सिद्ध कर लेता है-उसे जिन चार मण्डलोंके निमित्तसे ध्यानकी सिद्धि होती है उनका निश्चय करना चाहिए ॥५५।।
नासिकाके छेदको अधिष्ठित करके जो चार पुर-पार्थिव, वारुण, वायवीय और आग्नेय-अवस्थित हैं वे वायुसे व्याप्त होते हुए लक्ष्य व लक्षणके भेदसे पृथक हैं ॥५६।।
वे चार पुर या मण्डल यद्यपि अचिन्त्य-मनके अविषय और अतिशय दुर्लक्ष्य (अलक्ष्य या कष्ट से जाननेके योग्य ) हैं तो भी वे महान् अभ्याससे योगीके लिए स्वसंवेद्य हो जाते हैं-उसे उनका स्वरूप संवेदन हो जाता है ।।५।।
उन चार मण्डलोंमें प्रथम पार्थिव मण्डल, द्वितीय वारुण मण्डल, तत्पश्चात् विस्तृत वायवीय मण्डल और अन्तमें आग्नेय मण्डलको जानना चाहिए ।।५८||
१.४ निश्चिनोति । २. F पर्यन्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org