________________
-५४ ]
२६. प्राणायामः
1356 ) विकल्पा न प्रसूयन्ते विषयाशा निवर्तते । अन्तः स्फुरति विज्ञानं तत्र चित्ते स्थिरीकृते ॥ ५१ 1357 ) एवं भावयतः स्वान्तं यान्त्यविद्याः क्षयं क्षणात् । 'विमदी स्युस्तथाक्षाणि कषायरिपुभिः समम् ||५२ 1358) कुत्र श्वसनविश्रामः का नाड्यः संक्रमः कथम् ।
का मण्डलगतिः केयं प्रवृत्तिरिति बुध्यते ॥ ५३ 1359 ) स्थिरीभवन्ति चेतांसि प्राणायामावलम्बिनाम् । जगद्वृत्तं च निःशेषं प्रत्यक्षमिव जायते ॥ ५४
1356) विकल्पा न-तत्र हृदयाम्भोजे चित्ते स्थिरीकृते सति अन्तर्मध्ये विज्ञानं स्फुरति । विकल्पाः संकल्पाः न प्रसूयन्ते उत्पद्यन्ते । विषयाशा निवर्तते । इति सूत्रार्थः ॥ ५१ ॥ अथैवं सति मिथ्याज्ञानं नश्यतीत्याह ।
४६१
1357 ) एवं भावयतः - एवं भावयतो विचारयतः अविद्या मिथ्याज्ञानं क्षणात् क्षयं याति । तदा अक्षाणि इन्द्रियाणि विमदीस्युः मदरहितानि स्युः । कषायरिपुभिः समं सहेति सूत्रार्थः || ५२|| अथ तस्यैव विशेषमाह ।
1358) कुत्र श्वसन - [ श्वसनविश्रामः प्राणस्थितिः कुत्र । नाड्यः शरीरस्थिताः काः । संक्रमः संचारः कथम् भवति । इत्यादि बुध्यते ज्ञायते । ] इति सूत्रार्थः || ५३ || अथ प्राणायामस्य
स्वरूपमाह ।
1359 ) स्थिरीभवन्ति - चेतांसि स्थिरीभवन्ति । केषाम् । प्राणायामावलम्बिनां श्वासाश्रितानाम् । जगद्वृत्तं जगच्चरितम् । च पुनः । निःशेषं समस्तं प्रत्यक्षं हस्तामलकमिव जायते । इति सूत्रार्थः || ५४ || अथ ध्यानसिद्धिमाह ।
इस प्रकार से मनके स्थिर कर लेनेपर विकल्प —-राग-द्वेषस्वरूप विचार - उत्पन्न नहीं होते हैं, विषय- तृष्णा नष्ट हो जाती है, तथा अन्तःकरण के भीतर विशिष्ट ज्ञान प्रकाशमान होता है ॥ ५१ ॥
इस प्रकार से अन्तःकरणको संस्कृत करनेवाले योगीकी अविद्या क्षणभर में नष्ट हो जाती है तथा कषायरूप शत्रु और उनके साथ ही इन्द्रियाँ भी निर्मद (स्वाधीन ) हो जाती हैं ॥५२॥
इसके अतिरिक्त उस मनके संस्कृत हो जानेसे श्वासवायुका विश्राम कहाँपर है, नाड़ियाँ क्या हैं, संक्रमण कैसे होता है, और मण्डलकी गति क्या है; इन सबका परिज्ञान हो जाता है ॥५३॥
प्राणायामका आश्रय लेनेवाले योगियोंके मन स्थिर हो जाते हैं तथा उन्हें संसारका सब ही वृत्त प्रत्यक्ष जैसा हो जाता है ||५४ ||
Jain Education International
१. Tom. । २. M विवर्तते । ३. LSFK X R स्वान्तं । ४. Y विमन्दीस्यु: M N read 2nd line thus : सगर्वगरिमाभोगं त्यजन्त्यक्षाणि सर्वथा ।
For Private & Personal Use Only
www.jainelibrary.org