________________
४८०
ज्ञानार्णवः
1429 ) कुर्वीत पूरके सत्याकृष्टिं कुम्भके तथा स्तम्भम् । उच्चाटनं च योगी रेचकविज्ञानसामर्थ्यात् ।। ११६ 1430 ) इदमखिलं श्वसनभवं सामर्थ्यं स्यान्मुनेर्ध्रुवं तस्य । यो नाडिकाविशुद्धिं सम्यक् कर्तुं विजानाति ॥ ११७ 1431 ) यद्यपि समीरचारचपलतरो योगिभिः सुदुर्लक्ष्यः ।
जानाति विगततन्द्रस्तथापि नाड्यां कृताभ्यासः ||११८ नाडिकाशुद्धिः । तद्यथा -
1432 ) सकलं बिन्दुसनाथं रेफाक्रान्तं हवर्णमनवद्यम् । चिन्तयति नाभिकमले सुबन्धुरं कर्णिकारूढम् ॥ ११९
1429) कुर्वीत - पूरके सति आकृष्टि करोति । तथा कुम्भके स्तम्भं करोति । रेचके योगी रेचकविज्ञानसामर्थ्यात् उच्चाटनं करोति । इति सूत्रार्थः ॥ ११६ ॥ अथ पूर्वोक्तानां नाडिकायाः कारणत्वमाह ।
14-30 ) इदमखिलं – तस्य मुनेरिदमखिलं समस्तश्वसनभवं सामर्थ्यं स्यात् । ध्रुवं यो विशुद्धि सम्यक् कर्तुं विजानाति । इति सूत्रार्थः || ११७|| अथ नाडिचारस्य दुर्लक्ष्यत्वमाह । 1431 ) यद्यपि - विगततन्द्रः गतालस्यः । शेषं सुगमम् । इति सूत्रार्थः ||११८|| अथ नाडिकाविशुद्धिः * । तद्यथा दर्शयति ।
[ २६.११६
14:32 ) सकलं - हवर्णं चिन्तयति । सकलम् अर्धचन्द्राकारकलङ्कम् । क्व । नाभिकमले । बिन्दुसनाथं बिन्दुसहितम् । पुनः कीदृशम् । रेफाक्रान्तं रेफव्याप्तम् । पुनः कीदृशम् । अनवद्यं निष्पापम् । पुनः कीदृशम् । सुबन्धुरम् । कर्णिकारूढं कणिकास्थितम् । इति सूत्रार्थः ॥ ११९ ॥ अथ पुनरेतदेवाह ।
योगी पूरक प्राणायाम के होनेपर आकर्षणको, कुम्भक प्राणायाम के होनेपर स्तम्भनक और रेचक प्राणायामके होनेपर विशिष्ट ज्ञानके बलसे उच्चाटनको करे ||११६ ||
जो मुनि भली भाँति नाडीकी विशुद्धिको करना जानता है उसके निश्चयसे वायुसे उत्पन्न होनेवाला यह सब ही सामर्थ्य हुआ करता है ॥११७॥
यद्यपि वायुकी गति अतिशय चंचल होनेसे योगी जनोंके द्वारा भी बड़े कष्टसे देखी जाती है तो भी जिस योगीने आलस्यको छोड़कर नाडीके विषयमें योग्य अभ्यास किया है वह उसे जाना करता है ।। ११८|| वह नाडिकाकी शुद्धि इस प्रकार है
योगी कला ( ) से सहित, बिन्दु (०) से संयुक्त तथा रेफ ( ) से परिपूर्ण ऐसे सुन्दर व निर्दोष 'ह' वर्णको नाभिरूप कमलकी कर्णिकाके ऊपर आरूढ हुआ विचार करता है। अभिप्राय यह है कि योगीको अपने नाभिरूप कमलकी कर्णिकापर अवस्थित निर्मल 'हूँ" इस बीज पदका चिन्तन करना चाहिए ॥ ११९ ॥
Jain Education International
१. M N सत्यामाकृष्टि, T सत्यां कृष्टि । २. MN पवनाभ्यासो ऽयम् । नाडिकाशुद्धिस्तद्यथा, IF T नाडिकाविशुद्धिः । तद्यथा ।
For Private & Personal Use Only
www.jainelibrary.org