________________
-१९ ]
२५. ध्यानविरुद्धस्थानानि
1282 ) एताभिरनिशं योगी क्रीडन्नत्यन्त निर्भरम् । सुखमात्मोत्थमत्यक्षमिहैवास्कन्दति ध्रुवम् ||१६ 1283 ) भावनास्वासु संलीनः करोत्यध्यात्मनिश्चयम् । अवगम्य जगद्वृत्तं विषयेषु न मुह्यति ॥ १७ 1284 ) योगनिद्रा स्थितिं धत्ते मोहनिद्रापसर्पति । आसु सम्यक्प्रणीतासु स्यान्मुनेस्तच्वनिश्चयः ||१८
។
1285 ) आभिर्यदानिशं विश्वं भावयत्यखिलं वशी । तदौदासीन्य मापन्नश्चरत्यत्रैव मुक्तवत् ॥ १९
1282 ) एताभिरनिशं - योगी एताभिर्भावनाभिरनिशं निरन्तरम् । सुखम् इहैवास्कन्दति आश्रयति । ध्रुवं निश्चितम् । कीदृशं सुखम् । आत्मोत्थम् । पुनः कीदृशं सुखम् । अत्यक्षमतीन्द्रियम् । किं कुर्वन् । अत्यन्तनिर्भरं क्रीडन् । इति सूत्रार्थः ||१६|| अथासां स्वरूपमाह ।
1283) भावनास्वासु - आसु भावनासु संलीनः सावधानः अध्यात्मनिश्चयं करोति । किं कृत्वा । जगद्वृत्तं जगच्चरितमवगम्य ज्ञात्वा विषयेषु न मुह्यति । इति सूत्रार्थः ॥ १७॥ अथैतासां स्वात्मतत्त्वकारणतामाह ।
1284 ) योगनिद्रा - मुनेर्ज्ञाततत्त्वस्य तत्त्वनिश्चयः परमात्मतत्त्वनिश्चयः स्यात् । आसु मैत्र्यादिभावनासु सम्यक्प्रणीतासु कथितासु योगनिद्रा स्थिति धत्ते । आसु सम्यक्प्रणीतासु मोहनिद्रा प्रसर्पति गच्छति । इति सूत्रार्थः || १८ || पुनरपि तासां फलमाह ।
४४१
1285 ) अभिदा - वशी वश्येन्द्रियः आभिर्भावनाभिरखिलं विश्वं जगदनिशं निरन्तरम् । तदा औदासीन्यम् आपन्नः । अत्रैव मुक्तवत् चरति विचरति । इति सूत्रार्थः ||१९|| अथ रागादीनां स्वरूपमाह ।
इन भावनाओंके साथ निरन्तर अतिशय क्रीड़ा करनेवाला योगी निश्चयसे यहाँ हीइसी भवमें-- अतीन्द्रिय आत्मिक सुखको प्राप्त कर लेता है ॥ १६ ॥
इन भावनाओं में निमग्न हुआ योगी अध्यात्मका निश्चय करता है तथा संसारके स्वरूपको जानकर वह विषयोंमें मुग्ध नहीं होता है ॥१७॥
इन भावनाओंका भलीभाँति आचरण (चिन्तन) करनेपर मुनिकी योगनिद्रा (समाधि) स्थिरताको धारण करती है, मोहरूप नींद नष्ट हो जाती है, तथा उसे वस्तुस्वरूपका निश्चय हो जाता है || १८ ||
Jain Education International
जितेन्द्रिय योगी जब इन भावनाओंके साथ निरन्तर समस्त लोकका चिन्तन करता है तब वह उदासीनभावको प्राप्त होकर — राग-द्वेषसे मुक्त होता हुआ - यहाँ ( संसारमें ) ही सिद्धके समान आचरण करता है-मुक्ति उसके निकट आ जाती है ||१९||
१. M N यद्यनिशं ।
५६
For Private & Personal Use Only
www.jainelibrary.org