________________
-३५ ]
२५. ध्यानविरुद्धस्थानानि 1299 ) तृणकण्टकवल्मीकविषमोपलकर्दमैः ।
भस्मोच्छिष्टास्थिरक्ताद्यैर्दूषितां संत्यजेद् भुवम् ॥३३ 1300 ) काककौशिकमारिखरगोमायुमण्डलैः ।
अवघुष्टं हि विघ्नाय ध्यातुकामस्य योगिनः ॥३४ 1301 ) ध्यानध्वंसनिमित्तानि तथान्यान्यपि भूतले ।
न हि स्वप्ने ऽपि सेव्यानि स्थानानि मुनिसत्तमैः ॥३५
कीदृश्यो नार्यः । अशङ्किता अपि । इति सूत्रार्थः ॥२३-३२।। अथ पुनरेतादृशं स्थानं त्याज्यम् । तदेवाह।
___1299 ) तणकण्टक-एतादृशं स्थानं भुवं पृथ्वीं त्यजेत् । तृणकण्टकवल्मीकं कक्षकण्टकसर्पस्थानम् । पुनः कीदृशीं भुवम् । विषमोपलकर्दमैर्दूषितां वक्रप्रस्तरपकैर्दोषवतीम् । भस्मोच्छिष्टास्थिरक्ताद्यैः रक्षोच्छिष्टास्थिरुधिराद्यैर्दोषवतीम् । इति सूत्रार्थः ॥३३॥ पुनस्तदेवाह ।
___1300 ) काककौशिक-योगिनो ध्यातुकामस्य विघ्नाय विघ्नकरणाय हि नियतम् अवघुष्टं परिघोषितम् । कैः। काककौशिकमार्जारखरगोमायुमण्डलैः। काकः प्रसिद्धः, कौशिकः उलूकः, मार्जारः प्रसिद्धः, खरा गर्दभाः, गोमायुः गोधा, मण्डल: श्वा, तेषां समाहारः, तैः। इति सूत्रार्थः ॥३४॥ पुनः स्थाननिषेधमाह ।
1301 ) ध्यानध्वंस-मुनिसत्तमैः एतादृशानि स्थानानि न हि स्वप्ने ऽपि सेव्यानि । कीदृशानि। ध्यानध्वंसनिमित्तानि ध्याननाशकारणानि । तथा भूतले अन्यान्यपि ध्याननाशकारीणि । इति सूत्रार्थः ॥३५॥
स्थान क्षोभ, मोह और विकारका कारण हो उसको भी ध्यानके विनाशकी आशंकासे छोड़ देना चाहिए ॥३१-३२॥
ध्यानके लिए तृण (घास), काँटे, सर्पकी बाँवी, विषम पत्थर, कीचड़, भस्म, गूंठन, हड्डी और रुधिर आदिसे दूषित भूमिका परित्याग करना चाहिए-ऐसी भूमि ध्यानके योग्य नहीं है ॥३३॥
कौवा, उल्लू, बिलाव, गधा, शृगाल और कुत्ता; इनसे अधिकृत स्थान ध्यानकी अभिलाषा करनेवाले योगीके लिए विघ्नका कारण होता है ।।३४||
इसी प्रकार इस पृथिवीपृष्ठपर अन्य भी जो स्थान ध्यानके नाशक हैं, श्रेष्ठ मुनिजनोंको उनका सेवन-ध्यानके लिए उपयोग-स्वप्नमें भी नहीं करना चाहिए ।।३५।।
१. भृशम् for भुवं । २. M N अवधृष्टं, X Y अवश्यतो हि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org