________________
-३४ ]
२६. प्राणायामः
1332 ) आसनाभ्यास वैकल्याद्वपुः स्थैर्यं न विद्यते । खिद्यन्ते त्वङ्गवैकल्यात् समाधिसमये ध्रुवम् ॥३१ 1333 ) वातातपतुषाराद्यैर्जन्तुजातैरनेकशः ।
कृतासनजयो योगी खेदितो ऽपि न खिद्यते ॥ ३२ 1334 आसाद्याभिमतं स्थानं रम्यं चित्तप्रसत्तिदम् । उद्भिन्नपुलकः श्रीमान् पर्यङ्कमधितिष्ठति ॥३३ 1335 ) पयङ्कदेशमध्यस्थे प्रोत्ताने करकुड्मले । करोत्युद्भिन्नराजीवसंनिभे च्युतचापले ||३४
1332 ) आसनाभ्यास--आसनाभ्यासवैकल्यात् आसनाभ्यासराहित्यात् वपुःस्थैर्यं न विद्यते । तु पुनः । अङ्गवैकल्यात् सुगमम् । समाधिसमये ध्रुवं खिद्यते * । इति सूत्रार्थः ||३१|| अस्य दृढासनस्योपसर्गैर्मनो न चाल्यत इत्याह ।
४५५
1333 ) वातातप-योगी कृतासनखेदितो ऽपि न खिद्यते । कैः । अनेकशो जन्तुजातैः । वातातपतुषाराद्यैः वातश्च आतपश्च तुषारश्च तेषां समाहारः, तैः । इति सूत्रार्थः ॥३२॥ अथ पर्यङ्कासनमाह ।
1334 ) आसाद्याभिमतं - श्रीमान् योगी पर्यङ्कं पर्यङ्कासनम् अधितिष्ठति उपविशति । कि कृत्वा । स्थानम् आसाद्य प्राप्य । कीदृशं स्थानम् । अभिमतं वाञ्छितम् । पुनः कीदृशम् । रम्यम् । चित्तप्रसत्तिदं मनसः विशदभावदम् । उद्भिन्नपुलकः प्रगटरोमाञ्चः इति सूत्रार्थः ||३३|| अथ पर्यङ्कासनविशेषमाह ।
1335 ) पर्यङ्कः—पर्यङ्कदेशमध्यस्थे करकुड्मले प्रोत्ताने करोति ऊर्ध्वभूते करोति । पुनः कीदृशे करकुड्मले । उद्भिन्नराजीवसंनिभे विकसितकमलसदृशे । पुनः कीदृशे । च्युतचापले । इति सूत्रार्थः ||३४|| पुनरेतदेवाह ।
आसनका अभ्यास न होनेसे - उसकी अस्थिरतासे – शरीरकी स्थिरता नहीं रहती है और शरीरकी अस्थिरतासे समाधिके समय में नियमसे खेद होता है ||३१||
जिस योगीने आसनके ऊपर विजय प्राप्त कर ली है, अर्थात् जो बहुत काल तक दृढ़तापूर्वक एक आसनसे बैठ सकता है; वह वायु, घाम और शैत्य आदि द्वारा तथा प्राणिसमूहोंके द्वारा खेदको प्राप्त करानेपर खिन्न नहीं होता है ||३२||
अभीष्ट, रमणीय एवं मनके प्रसन्न करनेवाले स्थानको पा करके हर्षसे रोमांचको प्राप्त हुआ श्रीमान् योगी पर्यंक आसन से अधिष्ठित होता है ||३३||
इस आसन में योगी चंचलतासे रहित ( स्थिर ) और खुले हुए दोनों हाथोंरूप कलिकाओंको पर्यंकभागके मध्य में स्थित करके विकसित कमलके आकार में करता है । अभिप्राय यह है कि दोनों जंघाओंके नीचेके भागको दोनों पाँवोंके ऊपर रखकर दोनों खुली हुई
Jain Education International
१. All others except P NT खिद्यते । २. All others except PM रम्यं स्थानं । ३. SYR °त्युत्फुल्लराजीव ।
For Private & Personal Use Only
www.jainelibrary.org