________________
?
XXIV
[ आर्तरौद्रम् ]
1223 ) रुद्राशयभवं भीममपि रौद्रं चतुर्विधम् । कीर्त्यमानं विदन्वीर्याः सर्वसत्त्वाभयप्रदाः ॥ १ 1224 ) रुद्रः क्रूराशयः प्राणी रौद्रकर्मास्य कीर्तितम् । रुद्रस्य खलु भावो वा रौद्रमित्यभिधीयते ॥ २ 1225 ) हिंसानन्दान्मृषानन्दाच्चौर्यात् संरक्षणात्तथा । प्रभवत्यङ्गिनां शश्वदपि रौद्रं चतुर्विधम् ॥३
1223 ) रुद्राशय - रुद्राशयभवं रुद्राध्यवसायजातं भीममपि रौद्रं चतुर्विधम् आर्या विदन्तु जानन्तु | कीर्त्यमानं मया इति गम्यम् । कीदृशा आर्याः । सर्वसत्त्वाभिनन्दकाः सर्वजीवहितकारिणः । इति सूत्रार्थः ||१|| अथ प्रकारान्तरेण रौद्रमप्युपदिशति ।
1224 ) रुद्रः- तत्त्वदर्शिभिः तीर्थकरैः प्रणीतः * । कः । प्राणी । रुद्रः क्रूराशयः क्रूरचित्तः । रौद्रमित्यभिधीयते कथ्यते । रुद्रस्य कर्म रौद्रम् । वा अथवा । रुद्रस्य भावो रौद्रम् । इति सूत्रार्थ : ॥२॥ अथ प्रकारान्तरेण रौद्रस्य भेदानाह ।
1225 ) हिंसानन्दात् - अङ्गिनां प्राणिनां रौद्रं शश्वन्निरन्तरं चतुर्विधं भवति । कस्मात् । हिंसानन्दात् हिंसारूप आनन्दः तस्मात् । पुनः कस्मात् । चौर्यात् । संरक्षणात् । तथेति पक्षान्तरसूचकः । इति सूत्रार्थः ||३|| हिंसारौद्रम् । तद्यथा ।
जिस रौद्रध्यानका आगे निरूपण किया जा रहा है वह दुष्ट अभिप्रायसे उत्पन्न होनेवाला भयानक रौद्रध्यान भी चार प्रकारका है । सब जीवों के लिए अभय प्रदान करनेवाले आर्य जनों को उसका ज्ञान प्राप्त करना चाहिए ॥१॥
रौद्र शब्दा निरुक्तार्थ करते हुए यहाँ यह बतलाते हैं कि रुद्रका अर्थ यहाँ दुष्ट अभिप्रायवाला प्राणी है, उस रुद्र प्राणीका जो कर्म (क्रिया) है उसे रौद्र कहा गया है । अथवा उक्त रुद्र प्राणीका जो भाव है उसे रौद्र इस प्रकार कहा जाता है ॥२॥
हिंसा में आनन्द माननेसे, असत्यभाषण में आनन्द माननेसे, घोरीके अभिप्राय से तथा विषयोंके संरक्षणसे प्राणियोंके निरन्तर चार प्रकारका रौद्रध्यान उत्पन्न होता है || ३ ||
१. X Y वद । २. M N T F Y न्त्यार्याः । ३. All others except PI SR सत्त्वाभिनन्दकाः । ४. J missed the portion from V. No. 1222 to 1512 । ५. All others except P प्राणी प्रणीतस्तत्त्वदर्शिभिः । रुद्रस्य कर्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org