________________
?
—२१ ]
२४. आतंरौद्रम्
1242 ) असत्यसामर्थ्यवशादरातीन्नृपेण चान्येन च घातयामि । अदोषिणां दोषचयं विधाय चिन्तेति रौद्राय मता मुनीन्द्रैः ||१८ 1243 ) पातयामि जनं मूढं व्यसने ऽनर्थसंकटे ।
वाकौशल्यप्रयोगेण वाञ्छितार्थसिद्धये ||१९
४२९
1244 ) इमान् जडान्बोधविचारविच्यु तान्प्रतारयाम्यद्य वचोभिरुन्नतैः । अमी प्रवत्स्यन्ति मदीयकौशलादकार्यवर्येष्विति नात्र संशयः || २० 1245 ) अनेकासत्यसंकल्पैर्यः प्रमोदः प्रजायते ।
मृषानन्दात्मकं रौद्रं तत्प्रणीतं पुरातनैः ॥ २१
1242 ) असत्यसामर्थ्यं - मुनीन्द्रेर्योगिभिः सा चिन्ता अतिरौद्राय मता कथिता । शेषं सुगमम् । इति सूत्रार्थः || १८ || अथैतदेवाह ।
124:3 ) पातयामि – अहं मूढं मूर्ख जनं व्यसने कष्ट पातयामि । शेषं सुगमम् । इति सूत्रार्थः ||१९|| अथ लोकानां मूढत्वमेवाह ।
1244 ) इमान् - अमी मूढा अकार्यवर्गेषु प्रवत्स्यन्ति प्रवर्तयिष्यन्ति । शेषं सुगमम् । इति सूत्रार्थः ||२०|| अथ मृषानन्दात्मकं रौद्रमाह ।
1245 ) अनेका सत्य - पुरातनैः पूर्वाचार्यैः मृषानन्दात्मकं रौद्रं तत्प्रणीतं कथितम् । इति सूत्रार्थः । शेषं सुगमम् ॥ २१ ॥ इति श्रीशुभचन्द्राचार्यविरचिते.. कारापितम् असत्यं रौद्रं द्वितीयप्रकरणं समाप्तम् । विदितगणिसुपार्श्वः पाससूजातपार्श्वः विहितमहिमधामोद्दामकामैकदाम । जयति जगति सुपुत्रष्टोsरो जाड्यदात्रः महिमचरितवासः शुद्धश्रीरषिदासः || १ || आशीर्वादः । अथ चौर्यानन्दमेवाह ।
मैं असत्यके बलसे राजाके द्वारा अथवा अन्यके द्वारा शत्रुओंको नष्ट करता हूँ, इस प्रकार निर्दोष जनोंके दोषसमूहको करके जो चिन्ता होती है उसे महर्षि जन रौद्रका कारण मानते हैं ||१८||
मैं अभीष्ट प्रयोजनको सिद्ध करनेके लिए वचनचातुर्य का उपयोग करके मूर्ख जनको अनर्थोंसे भयानक आपत्ति में डालता हूँ, ऐसे चिन्तनका नाम मृषानन्द रौद्रध्यान है || १९||
मैं ज्ञान और विचारसे रहित इन मूर्खोंको आज अपने उन्नत वचनोंके द्वारा ठगता हूँ । ये मेरी चतुराईसे महान् अकार्यों में प्रवृत्त होंगे, इसमें सन्देह नहीं है, ऐसा विचार करना रौद्रध्यान ही है ||२०||
Jain Education International
उक्त रीतसे अनेकों असत्य विचारोंके द्वारा जो हर्ष उत्पन्न होता है उसे प्राचीन ऋषियोंने मृषानन्दस्वरूप रौद्रध्यान कहा है ॥२१॥
१. All others except PMNT वान्येन । २. MN वाक्कौटिल्य । ३ X विचारमुक्तान् । ४. MI T F K X वर्गे', NYR वर्षे । ५. PMN LT X इति विरचिते असत्यरौद्रं द्वितीयम्, N ॥२५॥ T ॥२७॥, F इति रौद्रध्यानस्य द्वितीयं भेदं समाप्तं, K असत्यं रौद्रप्रक, ४ इति मृषानन्दप्रक" ।
For Private & Personal Use Only
www.jainelibrary.org