________________
-१०]
३८७
२१. रागादिनिवारणम् 1114 ) अजस्र रुध्यमाने ऽपि चिराभ्यासाद् दृढीकृताः।
चरन्ति हृदि निःशङ्का नृणां रागादिराक्षसाः ॥८ 1115 ) प्रयासैः फल्गुभिर्मूढैः किमात्मा दण्डयते ऽधिकम् ।
शक्यते न हि चेच्चेतः कतु रागादिवर्जितम् ॥९ 1116 ) क्षीणरागं च्युतद्वेषं ध्वस्तमोहं सुसंवृतम् ।
यदि चेतः समापन्नं तदा सिद्धं समीहितम् ।।१०
विलम्बितम् । च पुनः । शङ्कितं क्रियते स्वस्वरूपे शङ्कोपेतम् । क्वचित् क्लिष्टं क्लेशयुक्तं क्रियते । इति सूत्रार्थः ।।७।। अथ रागादीनां स्वरूपमाह ।
__1114 ) अजस्रं नृणां रागादिराक्षसाः हृदि मनसि चरन्ति संचरन्ति। कीदृशाः । नि शङ्काः शङ्कारहिताः । पुनः कीदृशे हृदि । अजस्रं निरन्तरं रुध्यमाने ऽपि । पुनः कीदृशाः । चिराभ्यासात् चिरकालम् अभ्यासात् दृढीकृता । इति सूत्रार्थः ।।८।। अथ पुनः रागादिस्वरूपमाह।
1115 ) प्रयासैः-मूढर्मूखैः किमधिकमात्मा दण्ड्यते । प्रयासैः तपो ऽनुष्ठानजनितैः । कीदृशैः प्रयासैः । फल्गुभिनिःसारैः । हि यस्मात् कारणात् । चेत् यदि चेतो रागादिवजितं कर्तुं न शक्यते तदेति सूत्रार्थः ।।९।। अथ स्वच्छचेतसः फलमाह।
___ 1116 ) क्षीणरागं-यदि चेतः एतादृशं समापन्नं जातम् । कीदृशम् । क्षीणरागं नष्टरागं, च्युतद्वेषम् । पुनः कीदृशम् । सुसंवृतम् अशुभव्यापारेभ्यः संकोचितम् । तदा समीहितं वाञ्छितं सिद्धम् । इति सूत्रार्थः ॥१०॥ [अथ मूर्खविदुषोर्भेदमाह।
दीर्घकालके अभ्याससे प्रबल किये गये रागादिरूप राक्षस रोके जानेपर भी मनुष्योंके हृदयमें निरन्तर संचार किया करते हैं ॥८॥
__ अज्ञानीजन यदि मनको रागादिसे रहित नहीं कर सकते हैं तो फिर वे व्यर्थके परिश्रमोंसे-व्रत, संयम एवं तपश्चरण आदिसे उत्पन्न होनेवाले क्लेशोंसे-आत्माको अधिक पीड़ित क्यों करते हैं ? तात्पर्य यह कि रागादिकी शान्तिके बिना संयम व तपश्चरण आदि व्यर्थ ही रहते हैं ।।९।।
यदि मन राग और द्वेषसे रहित होकर मोहको नष्ट करता हुआ समस्त सावद्य प्रवृत्तिसे रहित हो चुका है तो समझना चाहिए कि प्राणीका अभीष्ट सिद्ध हो चुका-मुक्ति उसके निकट ही है ॥१०॥
१.SJK X Y R मूढ । २. T दह्यते । ३. T गतद्वषं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org