________________
४१७
-२७ ]
२३. आर्तध्यानम् 1206 ) श्रुतैदृष्टः स्मृतैतिः प्रत्यासत्तिं च संश्रितैः ।
यो ऽनिष्टार्थैर्मनःक्लेशः पूर्वमातं तदिष्यते ॥२५ 1207 ) अशेषानिष्टसंयोगे तद्वियोगानुचिन्तनम् ।
यत्स्यात्तदपि तत्वज्ञैः पूर्वमातं प्रकीर्तितम् ॥२६॥ प्रथमम् । 1208 ) राज्यैश्वर्यकलत्रबान्धवसुहृत्सौभाग्यभोगात्यये
चित्तप्रीतिकरप्रसन्नविषयप्रध्वंसभावे ऽथवा । संत्रासभ्रमशोकमोहविवशैर्यत्खिद्यते ऽहर्निशं
तत्स्यादिष्टवियोगजं तनुमतां ध्यानं कलङ्कास्पदम् ॥२७ __1206 ) श्रुतैर्दृष्टैः-तत् पूर्व प्रथमम् आर्तम् इष्यते। तत्किम् । यो मनःक्लेशः अनिष्टार्थैः क्रियते । कीदृशैरनिष्टाथैः । श्रुतैरन्यस्मात्, दृष्टैः स्वयं साक्षात्प्रकारेण । पुनः कीदृशैः। पूर्वानुभूतस्मृतगोचरीकृतैः । ज्ञातैः स्वयमवगतैः। च पुनः । प्रत्यासत्ति संबन्धमाश्रितैः। इति सूत्रार्थः ॥२५॥ अथ प्रकारान्तरेणार्तध्यानमाह।
__1207 ) अशेषानिष्ट-तदपि तत्त्वज्ञैः परमार्थज्ञैः पूर्वमार्तं ध्यानं प्रकीर्तितम् । तत्किम् । यत् अशेषानिष्टसंयोगे सर्वानिष्टसंयोगे सति तद्वियोगानुचिन्तनम् इष्टवियोगानुचिन्तनम् । इति सूत्रार्थः ॥२६॥ इति प्रथममार्तम् । अथ द्वितीयध्यानमाह । ___1208 ) राज्यैश्वर्य-तनुमतां प्राणिनां तद् ध्यानं कलङ्कास्पदं पापस्थानं स्यात् । कीदृशम् । इष्टवियोगजं मनोज्ञवियोगजातम् । अहर्निशम् अहोरात्रं यत् खिद्यते प्राणिभिः । कीदृशैः । संत्रासभ्रमशोकमोहविवशैः, संत्रासश्च भ्रमश्च शोकश्च मोहश्च संत्रासभ्रमशोकमोहाः तेषां विवशैः परवशैः । क्व सति । राज्यैश्वर्यकलत्रबान्धवसुहृत्सौभाग्यभोगात्यये। राज्यं चतुरङ्गम्, ऐश्वर्य, कलत्रं स्त्री, बान्धवा भ्रातरः, सुहृत् मित्रम्, सौभाग्यं, भोगाः, तेषां समाहारस्तद्विनाशे सति । अथवा । चित्तप्रीतिकरप्रसन्नविषयप्रध्वंसभावे, चित्तस्य प्रीतिकराः प्रसन्ना ये विषयाः तेषां प्रध्वंसभावः । इति सूत्रार्थः ॥२७॥ अथ द्वितीयभेदमाह ।
__सुने हुए, देखे हुए, स्मरणमें आये हुए और समीपताको प्राप्त हुए अनिष्ट पदार्थों के निमित्तसे जो मनमें क्लेश होता है वह प्रथम आर्तध्यान माना जाता है ॥२५॥
समस्त अनिष्ट पदार्थोंका संयोग होनेपर उनके वियोगके लिए जो चिन्ता होती है उसे भी तत्त्वज्ञ जनोंने प्रथम आर्तध्यान कहा है ।।२६।। प्रथम आर्तध्यान समाप्त हुआ।
राज्य, ऐश्वर्य, स्त्री, बन्धुजन, मित्र एवं सुभगता ( लोकप्रियता) के नष्ट हो जानेपर अथवा चित्तमें अनुराग उत्पन्न करनेवाले उत्तम विषयका विनाश होनेपर प्राणी जो पीड़ा, भ्रान्ति, शोक और मोहके वशीभूत होकर दिन-रात खेदको प्राप्त होते हैं वह इष्टवियोगज आर्तध्यान कहलाता है और वह प्राणियों के लिए पापका कारण होता है ॥२७॥ १. M जातैः । २. SKX R संसृतः । ३. P M प्रथमं । ४. M भिद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org