________________
३९२
ज्ञानार्णवः
1131 ) चिदचिद्रपिभावेषु सूक्ष्मस्थूलेष्वपि क्षणम् ।
रागः स्याद्यदि वा द्वेषः क्व तदाध्यात्मनिश्चयः || २३ 1132 ) नित्यानन्दमयीं साध्वीं शाश्वतीं चात्मसंभवाम् | वृणोति वीतसंरम्भो वीतरागः शिश्रियम् ||२४
1133 ) यत्र रागः पदं धत्ते द्वेषस्तत्रैति निश्चयः । उभावेतौ समालम्ब्य विक्रामत्यधिकं मनः || २५
1131 ) चिदचिह्नपि सूक्ष्मस्थूलेषु भावेषु पदार्थेषु रागः स्यात् यदि वा द्वेषः स्यात् । कीदृशेषु भावेषु । चिदचिद्रूपभावेषु * चेतनाचेतनभावेषु । तदाध्यात्मनिश्चयः परमात्मनिर्णयः क्व । न क्वापीति सूत्रार्थः || २३ || अथ वीतरागस्य मोक्षलक्ष्मीकारणत्वमाह ।
1132 ) नित्यानन्द — वीतरागो निःस्पृहः शिवश्रियं मोक्षलक्ष्मीं वृणोति । कीदृशः । वीतसंरम्भो गतमनोविकल्पः । कीदृशीम् । नित्यानन्दमयीं शाश्वतानन्दरूपाम् । पुनः कीदृशीम् । साध्वीं प्रधानीम् । पुनः । शाश्वतीम् अविनश्वराम् । पुनः कीदृशीम् । आत्मोपपन्नाम् । च पादपूरणे ||२४|| पुनस्तयोः स्वरूपमाह ।
[ २१.२३ -
1133 ) यत्र रागः – यत्र मनुष्ये रागः पदं स्थानं धत्ते तत्र जने द्वेषः पदं धत्ते, इति निश्चयः । एतौ उभौ रागद्वेषौ समालम्ब्याश्रित्याधिकं मनो विक्रामति विक्रियां करोति । इति सूत्रार्थः ॥२५॥ अथ ज्ञानमिच्छन् रागं हन्तोत्याह ।
सूक्ष्म व स्थूल स्वभाववाले चेतन, अचेतन और रूपी ( मूर्तिक) पदार्थों के विषय में यदि क्षणभर के लिए भी राग अथवा द्वेष होता है तो फिर अध्यात्मका निश्चय भला कहाँ सम्भव है ? राग-द्वेषके होते हुए आत्मस्वरूपका निश्चय सम्भव नहीं है ||२३||
वीतराग योगी संरम्भसे - हिंसादि पापोंके आनन्दरूप, उत्कृष्ट, अविनश्वर और आत्ममात्रसे उत्पन्न करता है ||२४||
Jain Education International
संकल्पसे - रहित होकर शाश्वतिक होनेवाली मुक्तिरूप लक्ष्मीका वरण
जहाँ (जिसके हृदय में) राग अपने चरणको धारण करता है—स्थान प्राप्त करता हैवहाँ द्वेष भी आकर उपस्थित होता है, यह निश्चित है । और इन दोनोंके आश्रयसे मन अतिशय पराक्रम दिखलाता है - वह इष्टसंयोग एवं अनिष्ट वियोग आदिके दुर्ध्यानमें प्रवृत्त होता है ||२५||
१. All others except P चिद्रूप | २. M द्विष ।
For Private & Personal Use Only
www.jainelibrary.org