________________
४१०
ज्ञानार्णवः
[२३.४
1183 ) यदैव संयमी साक्षात् समत्वमवलम्बते ।
___ स्यात्तदैव परं ध्यानं तस्य कौघघातकम् ॥४ 1184 ) अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् ।
स्फेटयत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः ॥५ 1185 ) भवज्वलनसंभृतमहादाहप्रशान्तये ।
शश्वद् ध्यानाम्बुधेधीरैरवगाहः प्रशस्यते ॥६ 1186 ) ध्यानमेवापवर्गस्य मुख्यमेकं निवन्धनम् ।
तदेव दुरितवातगुरुकक्षहुताशनः ॥७
1183 ) यदैव-संयमी चारित्रयुक्तः यदैव साक्षात्प्रकारेण समत्वं समतामवलम्बते आश्रयते तदैव तस्य संयमिनः परं प्रकृष्टं कौघपातकं कर्मसमूहनाशकं स्यात् । इति सूत्रार्थः ।।४।। अथ ध्यानस्य फलमाह।
___1184. ) अनादि-ध्यानार्को ध्यानसूर्यः। आशु शीघ्रं रागादितिमिरं रागाद्यन्धकारं स्फेटयति । कीदृशम् । धनं निबिडम् । पुनः कीदृशम् । अनादिविभ्रमोद्भूतम् अनादिभ्रान्त्योत्पन्नम् । कीदृशः ध्यानार्कः । प्रविजृम्भितः प्रसरितः । इति सूत्रार्थः ।।५।। अथ पुनरपि ध्यानफलमाह ।
1185 ) भवज्वलन-धीरै/रपुरुषैरवगाहो ऽभ्यासः प्रशस्यते श्लाघ्यते । शश्वन्निरन्तरम् । कस्य। ध्यानाम्बुधेानसमुद्रस्य। कस्यै। भवज्वलनसंभूतमहादाहप्रशान्तये भवाग्निसंजातमहासंतापशान्तिनिमित्तमिति सूत्रार्थः ॥६।। अथ पुननिस्य मोक्षकारणत्वमाह।
__1186 ) ध्यानमेव-अपवर्गस्य मोक्षस्य मुख्यं प्रधानम् एकम् अद्वितीयं निबन्धनं कारणं ध्यानमेवास्ति । तदेव ध्यानं दुरितवातगुरुकक्षहुताशनं पापसमूहगरिष्ठवनहुताशनम् अग्निम् । इति । सूत्रार्थः ।।७।। अथ कुवासनात्यागेन ध्यानस्य मोक्षसाधनत्वमाह ।
संयमका धारक मुनि जब प्रगट में समताभावका आश्रय लेता है तभी उसके कर्मसमूहको नष्ट करनेवाला उत्कृष्ट ध्यान होता है|४||
जीवका विकसित हुआ ध्यानरूप सूर्य उसके अनादिकालीन मिथ्याज्ञानसे उत्पन्न हुए सघन रागादिरूप अन्धकारको शीघ्र ही नष्ट कर देता है ।।५।।
धीर (गणधरादि ) पुरुष संसाररूप अग्निके संयोगसे उत्पन्न हुए तीन सन्तापकी शान्तिके लिए निरन्तर ध्यानरूप समुद्रके स्नानकी प्रशंसा करते हैं ॥६।।
मोक्षका मुख्य कारण एक वह ध्यान ही है। वही ध्यान पापसमूहरूप विस्तृत वनके भस्म करने के लिए अग्निके समान है ।।७।।
१.SJKXY R स्फुटयत्याशु । २. T मेकान्तिबन्धनं । ३. F शुष्कवृक्ष for गुरुकक्ष । ४. TJK x Y R°शनं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org