________________
४१४
[२३.१५
ज्ञानार्णवः 1196 ) प्रशस्तेतरसंकल्पवशात्तद्भिद्यते द्विधा ।
इष्टानिष्टफलप्राप्ते/जभूतं शरीरिणाम् ।।१५ 1197 ) अस्तरागो मुनिर्यत्र वस्तुतत्वं विचिन्तयेत् ।
तत्प्रशस्तं मतं ध्यानं सूरिभिः क्षीणकल्मषैः ॥१६ 1198 ) अज्ञातवस्तुतत्त्वस्य रागाद्युपहतात्मनः ।।
स्वातन्त्र्याद्वृत्तिर्या जन्तोस्तदसद्धयानमुच्यते ॥१७ 1199 ) आर्तरौद्रविकल्पेन दुर्व्यानं देहिनां द्विधा ।
द्विधा प्रशस्तमप्युक्तं धर्मशुक्लविकल्पतः ।।१८
___ 1196 ) प्रशस्तेतर-तद् ध्यानं द्विधा द्विप्रकारं भिद्यते भेदवद्भवति । कस्मात् । प्रशस्तेतरसंकल्पवशात् प्रशस्तः शुभः, इतरो ऽशभः प्रशस्तश्चेतरश्च प्रशस्तेतरः शुभाशुभः यः संकल्पो ऽध्यवसायः तद्वशात् । पुनः कीदृशं ध्यानम् । शरीरिणां प्राणिनामिष्टानिष्टफलप्राप्तेः मनोज्ञामनोज्ञफलागमनस्य बीजभूतं कारणभूतम् । इति सूत्राः ।।१५।। तयोराद्यभेदमाह।
__1197 ) अस्तरागः--सूरिभिराचार्यैः तत् प्रशस्तं ध्यानं मतं कथितम् । कीदशैः सरिभिः । क्षीणकल्मषैः गतपापैः । तत् किम। यत्र ध्याने मनिरस्तरागः सन गतरागद्वेषः सन् वस्तूतत्त्वं परमार्थस्वरूपं विचिन्तयेत् । इति सूत्रार्थः ।।१६।। अथाशुभध्यानस्य स्वरूपमाह ।
____1198 ) अज्ञात-जन्तोर्जीवस्य तदसद्ध्यानम् अशुभध्यानम् उच्यते। अज्ञातवस्तुतत्त्वस्य जीवस्य "स्वातन्त्र्यवृतिर्न । कीदशस्य। रागाद्युपहतात्मनः रागाद्युपहतः व्याप्तः आत्मा यस्य सः तस्य । इति सूत्रार्थः ॥१७।। अथ पक्षान्तरेण ध्यानद्वैविध्यमाह ।
1199 ) आर्तरौद्र-देहिनां प्राणिनाम् आर्त [ रौद्रविकल्पेन ] दुर्ध्यानं द्विधा । प्रशरतमपि
वह ध्यान प्रशस्त विचार (ध्यान ) और अप्रशस्त विचारके वशसे दो भेदरूप है जो प्राणियोंको क्रमशः इष्टफल ( स्वर्गादि) और अनिष्ट फल (नरकादि) की प्राप्तिका कारण होता है ॥१५॥
जिस ध्यानमें मुनि रागसे रहित होकर वस्तुस्वरूपका विचार करते हैं उसे पापसे रहित हुए आचार्य प्रशस्त ध्यान मानते हैं ।।१६।।
जो जीव वस्तुस्वरूपके यथार्थ ज्ञानसे रहित है तथा जिसका मन राग-द्वेषादि विकारोंसे आहत है उसके मनकी जो स्वतन्त्रतासे प्रवृत्ति होती है-वह जो यद्वा तद्वा विचार करता है-उसे अप्रशस्त ध्यान कहा जाता है ।।१७।।
प्राणियोंका यह दुर्ध्यान (अप्रशस्त ध्यान ) आर्त और रौद्रके भेदसे दो प्रकारका है। पूर्वोक्त प्रशस्त ध्यान भी धर्म और शुक्ल के भेदसे दो प्रकारका कहा गया है ॥१८॥ १. P प्राप्ते बीज, N प्राप्तेर्हेतु । २. All others except P M L K स्वातन्त्र्यवृत्तिर्या, 4 वृत्तिजन्तोर्या K वृत्तिन जन्तो। ३. M धर्म्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org