________________
-२४ ] २२. साम्यवैभवम्
४०३ 1167 ) भजन्ति जन्तवो मैत्र्यमन्योन्यं त्यक्तमत्सराः ।
समत्वालम्बिनां प्राप्य पादपद्मार्चितां क्षितिम् ॥२१ 1168 ) शाम्यन्ति योगिभिः क्रूरा जन्तवो नेति शक्यते ।
दावदीप्तमिवारण्यं यथा वृष्टैर्बलाहकैः ॥२२ 1169 ) भवन्त्यतिप्रसन्नानि कश्मलान्यपि देहिनाम् ।
चेतांसि योगिसंसर्गे ऽगस्त्ययोगे जलानि व ॥२३॥ अपि च 1170 ) क्षुभ्यन्ति ग्रहयक्षकिंनरनरास्तुष्यन्ति नाकेश्वरा
मुञ्चन्ति द्विपदैत्यसिंहशरभव्यालादयः क्रूरताम् । 1167 ) भजन्ति-जन्तवो जीवा अन्योन्यं परस्परं मैत्री मित्रभावं भजन्ति समाश्रयन्ति । कीदशाः । त्यक्तमत्सराः त्यक्तगुणिषु द्वषाः । किंकृत्य । समत्वावलम्बिनां साम्यभावाश्रितानां क्षिति भूमिं प्राप्य। कीदृशी क्षितिम् । पादपद्मार्चितां पदकमलपूजिताम् । इति सूत्रार्थः ॥२१॥ अथ योगिभिः क्रूरजन्तवः शाम्यन्त इत्याह।।
1168 ) शाम्यन्ति–मया इति शक्यते। इतीति किम् । योगिभितितत्त्वैः क्रूराः क्रुद्धा जन्तवः शाम्यन्ते । कैः कमिव। बलाहकैररण्यमिव यथा बलाहकैर्मेघेररण्यं दावदीप्तं वह्निज्वालितं शाम्यते विध्याप्यते । इति सूत्रार्थः ।।२२।। अथ योगिसंबन्धे पापनाशनमाह।।
1169 ) भवन्त्यति-योगिसंसर्गे योगिसंबन्धे देहिनां चेतांसि मनांसि अतिप्रसन्नानि अतिनिर्मलानि । पुनः कीदृशानि। कश्मलान्यपि मलिनान्यपि । कस्मिन् कानीव । अगस्त्ययोगे अगस्त्यमुनिसंबन्धे जलानीव । यथा अगस्त्ययोगे जलानि निर्मलानि भवन्तीति सूत्रार्थः ॥२३॥ अपि च पक्षान्तरे। अथ योगिसाम्यस्य सर्वं साध्यमाह।
1170 ) क्षुभ्यन्ति-भुवि पृथिव्यां योगीन्द्रसमत्वं योगीश्वरसमता तत्साध्यम् । अथवा पक्षान्तरे। किं किं न स्यात् । तत्किम् । ग्रहयक्षकिंनरनराः, ग्रहाः केत्वादयः, यक्षा व्यन्तर
साम्यभावका आश्रय लेनेवाले मुनियोंके चरण-कमलोंसे पूजित ( अधिष्ठित ) पृथ्वीको पाकर प्राणी परस्परमें मत्सरता ( द्वेष व ईर्ष्या) छोड़कर मित्रताको प्राप्त होते हैं ।।२१।।।
जिस प्रकार वर्षाको प्राप्त हुए मेघोंके प्रभावसे दावानलसे प्रज्वलित वन शान्त हो जाता है उसी प्रकार साम्यभावको प्राप्त हुए योगियोंके प्रभावसे दुष्ट जीव अपनी क्रूरताको छोड़कर शान्त हो जाते हैं, इसमें शंका नहीं है ॥२२॥
जिस प्रकार अगस्त्य ताराके संयोगसे बरसातका मलिन जल निर्मल हो जाता है उसी प्रकार योगियोंके संसर्गसे प्राणियोंके मलिन मन भी अतिशय निर्मल हो जाते हैं ॥२३॥
साम्यभावके धारक योगियोंके प्रभावसे शनि आदि दुष्ट ग्रह, यक्ष, किंनर और मनुष्य क्षोभको प्राप्त होते हैं; वैमानिक इन्द्र सन्तुष्ट होते हैं; हाथी, दैत्य, सिंह, अष्टापद और सर्प १. All others except P M N मैत्रीम। २. M शाम्यन्ते । ३. Y जन्तवो दुष्टबुद्धयः । ४. N जलं यथा, T जलानि वा F जलानि च,JX Y R जलानिवत् । ५. PM अपि च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org