________________
३७६
ज्ञानार्णवः
[२०.७1079 ) चित्तप्रपञ्चजानेकविकारप्रतिबन्धकाः ।
प्राप्नुवन्ति नरा नूनं मुक्तिकान्ताकरग्रहम् ॥७ 1080 ) अतस्तदेव संरुध्य कुरु स्वाधीनमञ्जसा।
यदि छेत्तुं समुधुक्तस्त्वं कर्मनिगडं दृढम् ॥८ 1081 ) सम्यगस्मिन् शमं नीते दोषा जन्मभ्रमोद्भवाः ।
जन्मिनां खलु शीर्यन्ते ज्ञानश्रीप्रतिवन्धकाः ॥९ 1082 ) एक एव मनोदैत्यजयः सर्वार्थसिद्धिदः।
अन्यत्र विफलः क्लेशो यमिनां तज्जयं विना ॥१० 1079 ) चित्तप्रपञ्च-सिद्धिस्त्रीपाणिग्रहं प्राप्नुवन्ति । कीदृशा नराः। चित्तप्रपञ्चजानेकविकारप्रतिबन्धकाः मनोविस्तारजातानन्तविकारप्रतिरोधकाः । इति सूत्रार्थः ।।७।। अथ मनोरुन्धनोपायमाह।
1080 ) अतस्तदेव-अतः कारणात् तदेव मनः संरुध्य रोधयित्वा स्वाधीनं कुरु अञ्जसा सुखेन । त्वं यदि कर्मनिगडं दृढं छेत्तुं समुद्युक्त: उद्यतो भवेदिति सूत्रार्थः ॥८॥ अथ मनसि शमिनो जन्मजातदोषमाह।
1081) सम्यगस्मिन-अस्मिन् मनसि शमं नीते उपशमं प्राप्त जन्मभ्रमोद्भवा भवभ्रमणजाता। खलु निश्चितम् । यमिनां वतिनाम् । शीर्यन्ते नाश्यन्ते। कीदृशा दोषाः । ज्ञानश्रीप्रतिबन्धकाः ज्ञानलक्ष्मीप्रतिकूलाः । इति सूत्रार्थः ।।९।। पुनर्मनोजयोपायमाह।
____1082 ) एक एक-एक एव मनोदैत्यजयः सर्वार्थसिद्धिदः अभिमतसौख्यदः । अन्यत्र तपःप्रमुखे तज्जयं विना मनोजयं विना यमिनां वतिनां क्लेशो विफलो निष्फलः । इति सूत्रार्थः ॥१०॥ अथ तस्यैव मनसो रोधमाह ।
जिन मनुष्योंने मनके प्रपंच (प्रतारण या दुष्प्रवृत्ति) से उत्पन्न होनेवाले अनेक प्रकारके क्रोधादि विकारोंको रोक लिया है वे निश्चयसे मुक्तिरूप महिलाके साथ पाणिग्रहणको प्राप्त होते हैं-उसे प्राप्त कर लेते हैं ।।७।।
इसलिए हे भव्य ! यदि तू दृढ़ कर्मरूप सांकलके तोड़नेमें उद्यत है तो उस मनका ही निरोध करके वास्तवमें उसे अपने अधीन कर ले ॥८॥
इस मनके भली भाँति उपशान्त हो जानेपर संसारपरिभ्रमणसे उत्पन्न हुए जो दोष प्राणियोंके ज्ञानरूप लक्ष्मीकी प्राप्तिमें बाधक हैं वे नियमसे नष्ट हो जाते हैं ॥९॥
एक मात्र मनरूप दैत्यकी विजय ही समस्त अभीष्ट पदार्थोंको सिद्ध करनेवाली होती है । और उस मनकी विजयके विना व्रत-संयमादिके परिपालनमें जो संयमी जन कष्ट सहते हैं वह व्यर्थ होता है ॥१०॥
१. All others except P MJ समं ।
२. K यमिनां खल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org