________________
३७४
ज्ञानार्णव:
1072 ) [ तथान्यैरप्युक्तम्
ध्यानस्य च पुनर्मुख्यो हेतुरत्र चतुष्टयम् । गुरुपदेश: श्रद्धानं सदाभ्यासः स्थिरं मनः ॥ १*१ ]
1073 ) एतान्येवाहुरेके च मनःस्थैर्याय शुद्धये ।
तस्मिन् स्थिरीकृते साक्षात् स्वार्थसिद्धिर्भुवा भवेत् ॥ २
1074 ) यमादिषु कृताभ्यासो निःसंगो निर्ममो मुनिः । रागादिक्लेशनिर्मुक्तं करोति स्ववशं मनः ||३
[ २०११
1072 ) ध्यानस्थ - गुरोः उपदेशः, श्रद्धानं गुरौ शास्त्रवाक्येषु च विश्वासः, सदाभ्यासः तत्त्व चिन्तायाः, स्थिरं मनः मनसः एकाग्रता । इति चतुष्टयं ध्यानस्य मुख्य कारणं प्रोक्तम् । इति सूत्रार्थः - ||११|| केचित्तु मनः स्थैर्याय एतेषां प्राधान्यमाहुः
Jain Education International
1073 ) एतान्येव - एतान्येवाष्टाङ्गादियोगलक्षणानि केचित् मनः स्थैर्याय आहुः कथयामासुः । च पुनः । मनः शुद्धये । तस्मिन्मनसि स्थिरीकृते साक्षात्स्वार्थसिद्धिर्भुवा निश्चला भवेत् । इति सूत्रार्थः ||२|| अथ मनसो वशीकरणमाह ।
1074 ) यमादिषु - मुनिः स्ववशं मनः करोति । कीदृशो मुनिः । यमादिषु अष्टाङ्गयोगेषु कृताभ्यासः । पुनः कीदृशः । निःसंग: बाह्याभ्यन्तर संगरहितः । पुनः कीदृशः । निर्ममः मायारहितः । कीदृशं मनः । रागादिक्लेशनिर्मुक्तं रागाद्युपद्रवरहितमिति सूत्रार्थः || ३ || अथाष्टाङ्गयोगानां मुक्तिबीजत्वमाह ।
[ तथा अन्य आचार्योंने भी कहा है- ध्यानका प्रधान कारण यह चतुष्ट्रय है । १) गुरुका उपदेश, २) उपदेशपर भक्ति, ३ ) सतत चिन्तन और ४) मनकी स्थिरता ||१२|| ]
कितने ही साधक मनकी स्थिरता और उसकी शुद्धिके लिए इन यम-नियमादिकोंको ही बतलाते हैं, क्योंकि उस मनके स्थिर कर लेनेपर निश्चयसे आत्मप्रयोजनकी सिद्धि प्रगटमें हो जाती है ||२||
जिस मुनिने उक्त यमादिकोंका अभ्यास कर लिया है. वह परिग्रहसे रहित होकर निर्ममत्व होता हुआ रागादि क्लेशोंसे रहित हुए मनको अपने अधीन कर लेता है ||३||
१. Only in M N । २. All others except LS F° वाहुः केचिच्च । ३. All others except PMNT ध्रुवं ।
For Private & Personal Use Only
www.jainelibrary.org