________________
—३४ ]
२०. मनोव्यापारप्रतिपादनम्
1105 ) दिक्चक्रं दैत्यधिष्ण्यं त्रिदशपतिपुराण्यम्बुवाहान्तरालं द्वीपाम्भोधिप्रकाण्डं खचरनरसुराहीन्द्रवासं समग्रम् । एतत्त्रैलोक्यनीडं पवनचयचितं चापलेन क्षणार्धेनाश्रान्तं चित्तदैत्यो भ्रमति तनुंमतां दुर्विचिन्त्यप्रभावः || ३३
1106 ) प्रशमयमसमाधिध्यानविज्ञानहेतो
3
विनयनय विवेकोदारचरित्रसिद्ध ।
य इह जयति चेतः पन्नगं दुर्निवारं स खलु जगति योगित्रात वन्द्यो मुनीन्द्रः || ३४
1105 ) दिक्चक्रं -- तनुमतां चित्तदैत्यो ऽश्रान्तं निरन्तरं क्षणार्धेन भ्रमति । कीदृशः । दुर्विचिन्त्यप्रभावः । किं भ्रमति । समग्रं समस्तम् एतत्त्रैलोक्यनीडम् एतत्त्रिभुवनम् भ्रमति । कर्तृक्रियाव्याहारो विशेषणैर्योग्यः । दिक्चक्रं चित्तदैत्यो भ्रमति । पुनः । दैत्यधिष्ण्यं दैत्याश्च धिष्ण्याश्च दैत्यधिष्ण्यम् । त्रिदशपतिपुराणि इन्द्रनगराणि भ्रमति । अम्बुवाहान्तरालं मेघमध्यम् । पुनः कीदृशम् । चित्तदैत्यो द्वीपाम्भोधिप्रकाण्डं द्वीपसमुद्रसमूहं भ्रमति । पुनः किं भ्रमति । खचरनरसुराहीन्द्रवासं विद्याधरमनुष्यामरनागेन्द्रभवनम् । पुनः कीदृशं भुवनम् । पवनचयचितं वायुसमूहव्याप्तम् । इति सूत्रार्थः ||३३|| अथ चेतोविनयफलमाह ।
Jain Education International
३८३
1106 ) प्रशमयम - यः पुमान् इह जगति चेतः पन्नगं मनःसर्पम् । कीदृशम् । दुर्निवारं जयति । किमर्थम् । प्रशमयमसमाधिध्यानविज्ञानहेतोः [ प्रशमयम ] चित्तस्थिरताध्यानविशिष्टज्ञाननिमित्तम् । पुनः कस्यै । विनयनयविवेकोदारचारित्रसिद्ध्यै विनयो भक्तिः, नयविवेकैः उदारं प्रधानं यच्चारित्रं तस्य सिद्धि:, तस्यै । खलु निश्चयेन । स चेतः पन्नगजेता मुनीन्द्रो योगिव्रतवन्द्यो योगिसमूहनमस्यो भवति । इति सूत्रार्थः ||३४||
अचिन्त्य प्रभावका धारक वह प्राणियोंका चित्तरूप दैत्य सब दिशाओंके घेरेमें, दैत्योंके स्थानमें, इन्द्रके पुरोंमें, मेघोंके मध्यमें, द्वीप व समुद्रोंके अन्तरालमें तथा विद्याधर, मनुष्य, देव और धरणेन्द्र स्थानमें, इस प्रकार वायुसमूहसे वेष्टित इस तीन लोकरूप घरमें अपनी चंचलतासे निरन्तर आवे ही क्षणके भीतर चक्कर लगाया करता है । तात्पर्य यह कि जब तक मनको वशमें नहीं किया जाता है तब तक वह जो वस्तु स्वप्न में भी प्राप्त नहीं हो सकती है उसके विषय में भी कुछ न कुछ सोचा ही करता है ||३३||
जो मुनीन्द्र प्रशम ( कषायों की शान्ति ), महाव्रत, प्रतिमायोग ( आत्मलीनता ), ध्यान और विशिष्ट ज्ञानके कारणसे तथा विनय, न्याय-नीति, विवेक और महान चारित्रकी शुद्धि लिए उस कष्टसे निवारण किये जानेवाले मनरूप सर्पको जीत लेता है-उसे अपने अधीन कर लेता है - वह लोकमें योगियोंके समूहसे वंदनीय होता है ||३४||
१. Y क्षणैर्नाविश्रान्तं । २. MN F J तनुभृतां । ३N ST JK X R शुद्धये ।
For Private & Personal Use Only
www.jainelibrary.org