________________
?
-६ ]
२०. मनोव्यापारप्रतिपादनम्
1075 ) अष्टावङ्गानि योगस्य यान्युक्तान्यार्यसूरिभिः | चित्तप्रसत्तिमार्गेण बीजं स्युस्तानि मुक्तये ॥४ 1076 ) अङ्गान्यष्टावपि प्रायः प्रयोजनवशात् क्वचित् । उक्तान्यत्रैव तान्युच्चैर्विदांकुर्वन्तु योगिनः ||५ 1077 ) तथान्यैरप्युक्तम् —
मनोरोधे भवेद्रुद्धं विश्वमेव शरीरिभिः । प्रायो ऽसंवृतचित्तानां शेषरोधो ऽप्यपार्थकः ॥ ५१ ॥ इतिं । 1078 ) कलङ्कविलयः साक्षान्मनः शुद्धचैव देहिनाम् | तस्मिन्नपि शमीभूते" स्वार्थसिद्धिरुदाहृता ||६
1075 ) अष्टावङ्गानि यानि अष्टाङ्गयोगस्याङ्गानि आर्यसूरिभिरुक्तानि तानि मुक्तये बीजं । न । चित्तप्रसत्तिमार्गेण मनोयोगप्रशान्तिपथा | इति सूत्रार्थः || ४ || अथाष्टाङ्गानि योगिनो जानन्तु तदाह ॥
(1076) अङ्गान्यष्टौ - अष्टावपि अङ्गानि प्रायः प्रयोजनवशात् कुत्रचित् उक्तानि । अत्रैव तानि अष्टावप्यङ्गानि योगिन उच्चविदांकुर्वन्तु ज्ञानविषयीकुर्वन्तु । इति सूत्रार्थः ||५|| तथाप्यन्यैरप्युक्तम् ।
1077 ) मनोरोध - मनोरोधे शरीरिभिर्विश्वं बुद्धमेव सर्वं ज्ञातमेव । प्रायः संवृतचित्तानां * संवरितमनसां शेषं रोधो ऽपि अपार्थकः निरर्थकः । इति सूत्रार्थः || ५ * १ || अथ मनः शुद्धेः फलमाह । 1078 ) कलङ्कविलयः - देहिनां प्राणिनां मनः शुद्धयैव कलङ्कविलयः साक्षाद्भवति । तस्मि न्नपि कलङ्कविलये समीभूते # स्वार्थसिद्धिरेव तेषां मुनीनाम् उदाहृता कथिता ॥ इति सूत्रार्थः ||६|| अथ मुक्तिप्राप्तिहेतुमाह ।
३७५
श्रेष्ठ आचार्योंने योगके जिन आठ अंगोंका उल्लेख किया है वे मनकी प्रसन्नता (निर्मलता ) के द्वारा मुक्तिके कारण होते हैं ||४|
उन आठों ही अंगोंका कथन प्रायः यहींपर (इस ज्ञानार्णवमें) प्रयोजनके अनुसार कहीं कहीं पर किया गया है, ऐसा योगीजन ज्ञात करें || ५|| तथा अन्य आचार्योंने भी कहा है
जिन प्राणियोंने मनको रोक लिया है-उसे स्वाधीन कर लिया है - उनने विश्वको ही स्वाधीन कर लिया है । परन्तु जिन्होंने उस मनका निरोध नहीं किया है उनका प्रायः शेष इन्द्रियों आदि निरोध करना भी व्यर्थ होता है ॥५१॥
प्राणियोंके दोषोंका विनाश प्रगट में मनकी शुद्धिसे ही होता है । तथा उस मनके शान्त हो जानेपर स्वार्थकी सिद्धि - मोक्ष की प्राप्ति –— कही गयी है ॥६॥
१. P योग्यस्य । २ PM L तथान्यै etc., F X अथ अन्यैरप्युक्तं । इति । ५. All others except PMLF समीभूते ।
Jain Education International
For Private & Personal Use Only
३. L प्रायः संवृत । ४. P M
•
www.jainelibrary.org