________________
३६८
ज्ञानार्णवः
[ १९.९५१-८यदेवं यदिह जगति शरीरविशेषसमवेतं किमपि सामर्थ्यमुपलभामहे तत्सकलमात्मन एवेति निश्चिन्मः । आत्मप्रवृत्तिपरंपरोपंपादितत्वाद्विग्रहग्रहणस्येति ॥८
यदेवं यत् इह जगति शरीरविशेषसमवेतं संयुक्तं किमपि सामर्थ्यमुपलभामहे तत्सकलमात्मन एवेति निश्चयः । विग्रहग्रहणस्य शरीरग्रहणस्य आत्मप्रवृत्तिः परंपरोत्पादितत्वात् ॥८॥ अर्थान्तरेणात्मानं स्तौति ।
करणे नाथवद्विधाने समर्थः क्षमः स तथोक्तः । इति यदा आत्मा चिन्त्यते तदा अयम् आत्मैव कामोक्तिविषयतामनुभवतीति क्रियाकारकसंबन्धः ॥७॥
यदेवं-ततस्तस्मात्कारणात् । एवं अमुना प्रकारेण । यदि चेत् जगति संसारे । शरीरविशेषसमवेतं कायभेदेषु समवायमागतम् । किमपि किंचिदपि। सामर्थ्य समर्थताम् । वयमुपलभामहे पश्यामः । तत्सकलं समस्तम् । आत्मन एव सामर्थ्य वर्तते। नान्यस्य शरीरादेः । इति निश्चयो निर्धारः । इदं सामर्थ्य आत्मन एव कथमिति प्रश्ने सति हेतुमाह। आत्मप्रवृत्तिपरंपरोत्पादितत्वाद्विग्रहग्रहणस्य इति । आत्मनो जीवस्य या प्रवृत्तिर्मनोवचनकायावलम्बनेन चेष्टितानि तेषां परंपरा श्रेणिः संतानः तया उत्पादितत्वात् । कस्य । विग्रहग्रहणस्य शरीरग्रहणस्य। यत् आत्मा शरीरं गृह्णाति तत् । आत्मनः अशुद्धपरिणाममाहात्म्यम् । विशुद्धपरिणामैस्त्वात्मनो मोक्ष एव स्यादिति ॥८॥ 'यदिह जगति किंचिदित्यादि' सुगमम् ।
आचार्यैरिह शुद्धतत्त्वमतिभिः श्रीसिंहनन्द्या ह्वयैः संप्रार्थ्य श्रुतसागरं कृतिवरं भाष्यं शुभं कारितम् । गद्यानां गुणवत्प्रियं विनयतो ज्ञानार्णवस्यान्तरे
विद्यानन्दिगुरुप्रसादजनितं देयादमेयं सुखम् ॥ इति श्रीज्ञानार्णवस्थितगद्यटीका तत्त्वत्रयप्रकाशिनी समाप्ता ।।
इसका कारण यह है कि इस प्रकार यहाँ लोकमें शरीरविशेषमें समवायको प्राप्त हुई जिस किसी भी शक्तिको हम प्राप्त करते हैं वह सब आत्माकी ही है, ऐसा हम निश्चित समझते हैं, क्योंकि, शरीरका जो ग्रहण होता है वह आत्माकी प्रवृत्ति-मन, वचन एवं कायके आश्रयसे होनेवाली चेष्टा-की परम्पराके अनुसार उत्पन्न किया जाता है।॥८॥
१. All others except P तदेवं । २. M SJX Y KR विनिश्चयः, N निश्चिनमः, LF T निश्चयः । ३. All others except P परंपरोत्पादि। ४. M N त्पादितत्त्वात परंपरविद्विग्रह । ५. J इति कामतत्त्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org