________________
-१९ ]
१९. त्रितत्त्वम्
1068 ) लोष्टेष्वपि यथोन्मत्तः स्वर्णबुद्धया प्रवर्तते । अर्थेष्वनात्मभूतेषु स्वेच्छयायं तथा भ्रमात् ॥ १७ 1069 ) वासनाजनितान्येव सुखदुःखानि देहिनाम् । अष्टमपि येनायमिष्टमित्यभिमन्यते || १८ 1070 ) अत्यजस्रमसौ जीवो यथा कामार्थलालसः । खिद्यते ऽत्र यदि स्वार्थे तथा तत् किं न मुच्यते || १९
प्रदीप्ते । कीदृश आत्मा । अविद्योद्भूतरागादिगरव्यग्रीकृताशयः अज्ञानजनितरागादिविषव्याकुलीकृतः आशयः अभिप्रायो यस्य । इति सूत्रार्थः ॥ १६ ॥ अथात्मनो भ्रमाद् विपरीतज्ञानमाह ।
३७१
1068) लोष्टेष्वपि - यथा उन्मत्तो मदिरादिभिः लोष्टे पाषाणे अपि स्वर्ण बुद्धया प्रवर्तते । अयं जीवः तथा भ्रमात् भ्रमज्ञानात् अनात्मभूतेषु स्वात्मव्यतिरिक्तपदार्थेषु स्वेच्छया प्रवर्तते । इति सूत्रार्थः ॥१७॥ अथ सुखदुःखादीनां वासनाकारणमाह ।
1069 ) वासना - देहिनां सुखदुःखानि वासनाजनितानि । एवकारो निश्चयार्थः । येन कारणेनात्मनानिष्टं विरूपमपि इष्टमित्यभिमन्यते जानाति । इति सूत्रार्थः ॥ १८ ॥ अथात्मा कामुको भवति, तथा स्वार्थेनेत्याह ।
1070 ) अत्यजत्रम् — असौ जीवो यथा अविश्रान्तं निरन्तरं कामलालसो भवति, तादृशः सन् खिद्यते । तर्हि किं न विमुच्यते कर्मभ्यः । इति सुगमम् ||१९||
प्राप्त होकर बाह्य पदार्थों में आसक्त होकर - अनन्त दुखरूप अग्निसे जलते हुए संसाररूप गहन वनमें जा गिरता है ||१६||
जिस प्रकार पागल मनुष्य सुवर्ण समझकर ढेलोंके ग्रहण करनेमें प्रवृत्त होता है उसी प्रकार यह अज्ञानी प्राणी भ्रान्तिके वश होकर अपनेसे भिन्न बाह्य पर पदार्थोंके ग्रहण में इच्छानुसार प्रवृत्त होता है ॥ १७॥
संसारी जीवोंके सुख-दुख नियमसे संस्कारजनित हैं- - काल्पनिक हैं, जिससे यह जीव अनिष्ट वस्तुको भी इष्ट माना करता है ॥ १८ ॥
वह जीव जिस प्रकार निरन्तर काम और अर्थ ( धन ) की इच्छा करता हुआ यहाँ खेदको प्राप्त होता है उस प्रकार यदि वह आत्मप्रयोजन ( मोक्ष ) के सिद्ध करनेमें प्रयत्नशील होकर खेदको प्राप्त होता तो क्या मुक्तिको प्राप्त न हो जाता ? अवश्य हो जाता ||१९||
Jain Education International
१. N तदा । २. T भ्रमेत् । ३. M मिष्टमप्यभि । ४. All others except P अविश्रान्तमसौ । ५. All others except P NT X विद्यते । ६. All others except P तथा किं न विमुच्यते ।
For Private & Personal Use Only
www.jainelibrary.org