________________
२०४
ज्ञानार्णवः
579 ) हृदि यस्य पदं धत्ते परवित्तामिषस्पृहा । करोति किं न किं तस्य कण्ठलग्नेव सर्पिणी ॥७ 580 ) चुराशीलं विनिश्चित्य परित्यजति शङ्किता । वित्तापहारदोषेण जनन्यपि सुतं निजम् ||८ 581 ) भ्रातरः पितरः पुत्राः स्वकुल्या मित्रबान्धवाः । संसर्गमपि नेच्छन्ति क्षणार्धमपि तस्करैः ॥ ९ 582 ) न जने न वने चेतः स्वस्थं चौरस्य जायते । मृगस्येवोद्धतव्याधादाशङ्क्य वधमात्मनः ॥ १०
1579 ) हृदयस्थ - यस्य पुंसः हृदि पदं स्थानं परवित्तामिषस्पृहा परद्रव्यमांसस्पृहा वाञ्छा धत्ते, तस्य पुसः कण्ठलग्ना सर्पिणीव किं किं न करोति । अपि तु सर्वं करोतीत्यर्थः ॥७॥ अथ चौरं मातापि त्यजति तदाह ।
[ १०.७
580) चुराशीलं - जनन्यपि मातापि निजं सुतं परित्यजति । किं कृत्वा । चुराशीलं चौकरिष्णुं विनिश्चित्य निश्चयीकृत्य । कीदृशी जननी । वित्तापहारदोषेण शङ्किता भीता । इति सूत्रार्थः ||८|| अथ तस्करसंसर्गी निषेधयति ।
581 ) भ्रातरः पितरः - इह जगति तस्करैः चोरैः सार्धं क्षणमपि एते न संसर्गमिच्छन्ति । के । भ्रातरः, पितरः पुत्राः । सुगमम् । स्वकुल्याः निजकुलोद्भवाः मित्रबान्धवाः । पुनर्बान्धवग्रहणं मुखजल्पिता । इति सूत्रार्थः ||९|| अथ चौरास्थिरत्वमाह ।
1
I
1
582 ) न जने न - चौरस्य चेतः स्वस्थं न जायते । जने लोके । न वने कानने । किं कृत्वा आत्मनो वधं मरणमाशङ्क्य ज्ञात्वा । कस्येव । मृगस्येव । यथा उद्धतव्याधात् उग्रवधिकादात्मनो मरणमाशङ्कति तद्वदिति सूत्रार्थः ||१०|| अथ चोरस्य स्वरूपमाह ।
जिसके हृदय में परधनरूप मांसकी इच्छाने घर कर लिया है उसके कण्ठ में लगी हुई सर्पिणीके समान वह क्या क्या अनर्थ नहीं करती है । तात्पर्य यह कि परधनकी अभिलाषा सर्पिणीकी अपेक्षा भी अतिशय घातक है ॥७॥
अपने पुत्रको चोरी करनेका स्वभाववाला जानकर माता भी चौर्यकर्म के दोषसे भयभीत होकर उसका परित्याग कर देती है ॥८॥
Jain Education International
भाई, पिता, पुत्र, अपने वंशज, मित्र और बान्धव ( हितैषी जन ) आदि चोरों के साथ आवेक्षण के लिए संगति की भी इच्छा नहीं करते हैं । तात्पर्य यह कि चोरोंको सब ही घृणा की दृष्टि से देखते हैं ||९||
जिस प्रकार प्रबल व्याधसे अपने मारे जानेकी आशंकासे मृगका चित्त कहीं पर निराकुल नहीं रहता है उसी प्रकार चोरका चित्त भी न जनसमुदाय में निराकुल रहता है
१. All others except PM N क्षणार्धमिह ।
For Private & Personal Use Only
www.jainelibrary.org