________________
३०४
ज्ञानार्णवः
[१८.२०907 ) इति कतिपयवर्णैश्चर्चितं चित्ररूपं
चरणमनघमुच्चैश्चेतसां शुद्धिधाम । अविदितपरमार्थयन्न साध्यं विपक्ष
स्तदिदमनुसरन्तु ज्ञानिनः शान्तदोषाः ॥२० 908 ) सम्यगेतत्समासाद्य त्रयं त्रिभुवनार्चितम् ।
द्रव्यक्षेत्रादिसामग्र्या भव्यः सपदि मुच्यते ॥२१ 909 ) एतत्समयसर्वस्वं मुक्तेश्चैतन्निबन्धनम् ।
हितमेतद्धि जीवानामेतदेवाग्रिमं पदम् ॥२२ 910 ) ये याता यान्ति यास्यन्ति यमिनः पदमव्ययम् ।
समाराध्यैव ते नूनं रत्नत्रयमखण्डितम् ॥२३ 907 ) इति कतिपय-हे ज्ञानिनः, तदिदं चरणं चारित्रम् । अनुसरन्तु। कीदृशाः। शान्ताः। कीदशं चरणम् । इति अमना प्रकारेण। कतिपयवर्णै रक्षरैः चचितम् । पुनः कोदशम् । चित्ररूपं नानाप्रकारम् । पुनः कीदृशम् । अनघं सफलम् । पुनः कीदशम् । उच्चैश्चेतसाम् उन्नतचित्तानां शुद्धिधाम । पुनः कीदृशम् । विपक्षैमिथ्यात्विभिर्यच्चारित्रं न साध्यम् । कोदशैविपक्षैः । अविदितपरमार्थः। इति सूत्रार्थः ।।२०।। अथ सम्यग्दर्शनत्रिकस्य फलमाह।
___908 ) सम्यगेतत्-तत् सम्यक् त्रयं सम्यग्दर्शनादित्रिकं समासाद्य प्राप्य भव्यः सपदि शीघ्रं मुच्यते मुक्तो भवति । कया । द्रव्यक्षेत्रादिसामग्रया। सुगमम् । कीदृशं तत्त्रयम् । सम्यक्त्रयं त्रिभुवनाचितम् । इति सूत्रार्थः ॥२१॥ अथ पुनः सम्यक्त्रयफलमाह।।
909 ) एतत्समय-एतद् रत्नत्रयं समयसर्वस्वं सिद्धान्तपरमार्थ एतन्मुक्तेनिबन्धन कारणम् । पक्षान्तरे। एतद् हि निश्चितं हितं हितकारि। एतद् अग्रिमं पदं प्रधानं स्थानमिति सूत्रार्थः ॥२२॥ अथ त्रैकाल्ये ऽपि रत्नत्रयस्य मुक्तिकारणत्वमाह ।
910 ) ये याताः-अव्ययं पदं शाश्वतस्थानं, मुक्तिमिति पर्यायः। शेषं सुगमम् । इति सूत्रार्थः ॥२३॥ अथ रत्नत्रयाभावे मुक्तेरभावमाह ।
इस प्रकार जिसका यहाँ कुछ वर्षों के द्वारा-कितने ही श्लोकोंमें-वर्णन किया गया है, जिसका अनेक प्रकारका स्वरूप आश्चर्यजनक है, जो पापसे रहित होकर उन्नत मनवाले संयमी जनोंकी शुद्धिका कारण है, तथा जिसे विरुद्ध आचरण करनेवाले ( विधर्मी ) वस्तुस्वरूपके यथार्थ ज्ञानसे रहित होनेके कारण सिद्ध नहीं कर सकते हैं; ज्ञानी जन दोषोंसे रहित होकर उस इस निर्मल चारित्रका अनुसरण करें-उसे धारण करें ॥ २०॥
तीनों लोकोंसे पूजित इस समीचीन रत्नत्रयको द्रव्य क्षेत्रादिरूप सामग्रीके अनुसार प्राप्त करके भव्य जीव शीघ्र ही मुक्त हो जाता है ।। २१ ।।
यह रत्नत्रय आगम या आत्माका सर्वस्व (सब धन ) है, यह मुक्तिका कारण है, यह निश्चयसे प्राणियोंका कल्याण करनेवाला है, तथा यही उनका सर्वोत्कृष्ट पद है ।। २२ ॥
जो मुनि अविनश्वर पद (मोक्ष) को प्राप्त कर चुके हैं, वर्तमानमें प्राप्त कर रहे हैं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org