________________
-१४७ ]
१८. अक्षविषयनिरोधः
1044 ) इदमिह विषयोत्थं यत्सुखं तद्धि दुःखं व्यसनविपिनवीजं तीव्र संतापविद्धम् । कटुकतरेफलाढ्यं निन्दितं ज्ञानवृद्धैः परिहर किमिहान्यैर्धर्तवाचां प्रपञ्चैः ॥१४६ 1045 ) तत्तत्कारकॅपारतन्त्र्यमचिरान्नाशः सतृष्णान्वय े - स्तैरेभिर्निरुपाधिसंर्गेमभृतो बाधानिदानैः परैः । शर्माणि स्पृहयन्ति हन्त विषयानाश्रित्य यद्देहिनस्तत्क्रुध्यत्फणिनायकाग्रदशनैः कण्डूविनोदः स्फुटम् ॥ १४७
1044) इदमिह - इह जगति यद्विषयोत्थं सुखम् । हि निश्चितम् । तत्सुखं दुःखमेव । कीदृशम् । व्यसनविपिनबीजम् आपद्वनस्य कारणम् । पुनः कीदृशं तत् सुखम् । कटुतरपरिपाकं कटुतरः दुःसहः परिपाको भुक्तिकालो यस्य तत् । पुनः कीदृशम् । ज्ञानवृद्धैनिन्दितं यतया अपवर्णितम् । तत्सुखं, हे भव्य, परिहर त्यज । इह प्रस्तावे अन्येधूर्तवाच प्रपञ्चैः । कपटिवाग्विस्तारैः किम् । न किमपीत्यर्थः ॥ १४६॥ अथ विषयैः यत्सुखं वाञ्छति तानाह । शार्दूल० ।
३४५
1045) तत्तत्कारक—तत् इन्द्रियसुखं तत्कारकपारतन्त्र्यं पराधीनम् । सतृष्णान्वयः । अचिरान्नाशः शीघ्रनाशः । निरुपाधिसंगमभृतः निर्ग्रन्थलिङ्गधारका यतयः । एभिर्विषयेः परे: अन्यैर्वा बाधानिदानैः दुःखकारणैः शर्मभ्यः सुखेभ्यः स्पृहयन्ति वाञ्छन्ति । अत्र स्पृहादियोगे द्वितीयास्थाने चतुर्थी । हन्त खेदे । किं कृत्वा । विषयानाश्रित्य । यत्सुखं देहिनः स्पृहयन्ति, तत् क्रुध्यत्फणिनायकाग्रदशनैः कोपित नागेन्द्राग्रदशनैः स्फुटं यथा स्यात् तथा कण्डूविनोदः खर्जूः क्रीडा । इति सूत्रार्थः ।।१४७।। अथेन्द्रियविषयवतां वैराग्याभावमाह ।
संसार में यह जो विषयोंसे उत्पन्न हुआ सुख है वह निश्चयसे दुख ही है । कारण यह कि वह कष्टरूप वनका बीज - अनेक कष्टोंको उत्पन्न करनेवाला, तीव्र सन्तापसे वेधा गया— अतिशय सन्तापका कारण, अत्यन्त कडुवे फलोंसे व्याप्त और विशिष्ट ज्ञानियोंके द्वारा निन्दित है । इसलिए हे भव्य ! तू उसे छोड़ दे, क्योंकि, यहाँ अन्य धूर्तजनोंके वचनोंके विस्तारसे तुझे क्या लाभ होनेवाला है ? कुछ भी नहीं ॥ १४६ ॥
वह विषयसुख उन-उन कारकोंके अधीन - बाह्य सामग्रीकी अपेक्षा रखनेवाला, क्षणनश्वर एवं तृष्णाका अविनाभावी है । बाधा के कारणभूत उन इन पर पदार्थोंके साथ उपाधिरहित संयोगको धारण करनेवाले प्राणी जो विषयोंका आश्रय लेकर सुखोंकी अभिलाषा करते हैं वह स्पष्टतया क्रोधको प्राप्त हुए भयानक सर्पके अगले दाँतोंके द्वारा - विषैली दाढ़ोंसे - खुजलाकर खुजलीको नष्ट करनेके समान है । अभिप्राय यह है कि विषयसुख क्षणनश्वर होकर भी पर पदार्थों के अधीन है । परन्तु उन पर पदार्थोंकी अनुकूलता प्राणीके अधीन नहीं
Jain Education International
१. All others except P कटुतरपरिपाकं । २. MN कारमपार । ३. TJXYR तृष्णान्वयै । ४. All others except PMN संयम । ५. P बाधानिबोध्या ( ? ) । ६. All others except P शर्मभ्यः ।
४४
For Private & Personal Use Only
www.jainelibrary.org