________________
XIX
[त्रितत्त्वम् ] 1051 ) अयमात्मा स्वयं साक्षाद् गुणरत्नमहार्णवः ।
सर्वज्ञः सर्वगः सार्वः परमेष्ठी निरञ्जनः ॥१ 1052 ) तत्स्वरूपमजानानो जनो ऽयं विधिवश्चितः ।
प्रेपश्यतीन्द्रियार्थेषु दुःखमेव सुखास्थया ॥२ 1053 ) यत्सुखं वीतरागस्य मुनेः प्रशमपूर्वकम् ।
न तस्यानन्तभागो ऽपि प्राप्यते त्रिदशेश्वरैः ॥३ 1051) अयमात्मा-अयम् आत्मा स्वयमात्मनैव साक्षात् प्रत्यक्षं गुणरत्नमहार्णवो भवति । अयमात्मा सर्वज्ञः, सर्वदृक् , सार्वः सर्वरूपः, परमेष्ठी निरञ्जनश्च ॥१॥ [विषयसुखं विषान्नवदित्याह।] ____1052) तत्स्वरूपम्-तत्स्वरूपम् आत्मस्वरूपम् अजानानः अजानन् अयं लोकः विषयेषु सुखं वेत्ति । किंभूतो जनः । विधिवञ्चितो दैववञ्चितः स्वरूपज्ञानात् प्रच्यवितः। किभूतं च तद्विषयसुखम् । यदिदमेवं विनिन्द्यते । *अथ यत्पाके परिणामे विषयसुखं विषान्नवत् विषमिलितान्नवत् स्यात् ॥२॥ [ वीतरागसुखं देवदुर्लभमित्याह ।]
1053) यत्सुखं-वीतरागस्य मुनेः प्रशमपूर्वकं यत्सुखं वर्तते, तस्य सुखस्यानन्तभागो ऽपि त्रिदशेश्वरैः देवैरपि न प्राप्यते ॥३॥ [ तत्सुखं साधनैः विना प्राप्यते इत्याह।]
यह आत्मा प्रगटमें स्वयं गुणरूप रत्नोंका महासमुद्र, सर्वज्ञ, सर्वव्यापक-अनन्तज्ञानकी अपेक्षा सर्वत्र व्याप्त, सबका हित करनेवाला, परम पदमें स्थित और कर्मरूप कज्जलसे रहित है ॥११॥
यह प्राणी दैवसे ठगा जाकर-कर्मोदयके वशीभूत होकर-आत्माके उपर्युक्त स्वरूप को न जानता हुआ इन्द्रियविषयोंमें उनके निमित्तसे प्राप्त होनेवाले दुखको ही सुखकी दृष्टिसे देखता है। अभिप्राय यह है अज्ञानी प्राणी अशुभ कर्मके उदयसे आत्माके यथार्थ स्वरूपको न समझकर बाह्य इन्द्रियविषयों में सुखकी कल्पना करता है। परन्तु ऐसा है नहीं, यथार्थ सुख तो आत्मामें ही है-वह बाह्य पदार्थों में नहीं है ॥२॥
राग-द्वेषके उपशमपूर्वक जो सुख वीतराग मुनिको प्राप्त होता है, इन्द्रोंको उसके अनन्तवें भाग भी वह सुख नहीं प्राप्त होता । अभिप्राय यह है कि प्राणीके अन्तःकरणमें जब १. N L S T F J K R सर्वदृक् सार्वः । २. All others except P 2nd line विषयेषु सुखं वेत्ति यत्स्यात् पाके विषान्नवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org