________________
- २३ ]
१४. संसर्गः
745 ) निःशङ्कीकुरुते' नर्म रहोजल्पावलम्बितम् । वीक्षणादीन्धनोद्भुतः कामाचिः प्रविजृम्भते ||२० 746 ) बहिरन्तस्ततस्तेन दद्यमानो ऽग्निना भृशम् । विचार्य जनः शीघ्रं ततः पापे प्रवर्तते ॥ २१ 747 ) श्रुतं सत्यं तपः शीलं विज्ञानं वृत्तमुन्नतम् । इन्धनीकुरुते मूढः प्रविश्य वनितानले ||२२ 748 ) स्फुरन्ति हृदि संकल्पा ये स्त्रीव्यासक्तचेतसाम् । रागिणां तानि भ्रातर्न को sपि गदितुं क्षमः || २३
745 ) निःशङ्कीकुरुते - ततो निःशङ्कं नर्म हास्यं कुरुते । कीदृशं नर्म । रहोजल्पावलम्बितम् एकान्तवातविलम्बितम् । ततः कामाग्निः प्रविजृम्भते प्रगटीभवति । कीदृशः कामाग्निः । वीक्षणादोन्धनोद्भूतः दर्शनादीन्धनजातः । इति सूत्रार्थः ||२०|| ततो यद्भवति तदाह ।
२५३
746 ) बहिरन्तः -- ततस्तदनन्तरं तेनाग्निना दह्यमानः । बह्रिन्तर्बाह्यमध्ये । ततो जनः शीघ्रं पापे प्रवर्तते । किं कृत्वा । अविचार्यं । इति सूत्रार्थः ॥ २१ ॥ अथ श्रुतादीन्धनं भवति वह्नौ तदाह ।
747 ) श्रुतं सत्यं - वनितानले स्त्रीवही प्रविश्य वृत्तमाचारम् । शेषं सुगमम् । इति सूत्रार्थः ||२२|| अथ स्त्रीसंकल्पकथनमाह ।
748 ) स्फुरन्ति - स्त्रीव्यासक्तचेतसां हृदि ये संकल्पाः स्फुरन्ति । इह जगति हे भ्रातः तान् संकल्पान् गदितुं कथयितुं न कोऽपि क्षमः समर्थः । इति सूत्रार्थः ||२३|| अथ पुनस्तदेवाह ।
फिर परस्परके दर्शन-स्पर्शन आदि रूप ईंधन से उत्पन्न हुई कामरूप अग्नि वृद्धिंगत होती है । तब प्राणी निर्भय होकर एकान्त में प्रेमभाषणादि के आश्रित क्रीड़ा करता है ||२०|| अन्तमें मनुष्य उस कामाग्नि से बाहर और अन्तरंग में अतिशय सन्तप्त होता हुआ विवेकबुद्धिको नष्ट करके शीघ्र ही पाप में प्रवृत्त हो जाता है ||२१||
इस प्रकार से मूर्ख मनुष्य स्त्रीरूप अग्निमें प्रविष्ट होकर वहाँ आगमज्ञान, सत्य, तप, शील, विज्ञान और उन्नत चारित्रको इंधन बना डालता है - उन्हें भस्म कर देता है ||२२||
जिनका चित्त स्त्रीके विषय में अत्यन्त आसक्तिको प्राप्त हुआ है उन विषयानुरागी मनुष्यों के हृदय में जो कल्पनाएँ उठती हैं, है भाई ! उनका वर्णन करनेके लिए यहाँ कोई भी समर्थ नहीं है ||२३||
Jain Education International
१. All others except PM L निःशङ्कं कुरुते । २. All others except P कामाग्निः । ३. AII others except_P M N वृत्तमुत्तमम् । ४. S तमिह भ्रात, VJ XY R तानि हे भ्रातं ।
For Private & Personal Use Only
www.jainelibrary.org