________________
-८]
२७९
१६. परिग्रहदोषविचारः 826 ) संवृतस्य सुवृत्तस्य जिताक्षस्यापि योगिनः ।
व्यामुह्यति मनः क्षिप्रं धनाशाव्यालविप्लुतम् ॥६ 827 ) त्याज्य एवाखिलः संगो मुनिभिर्मोक्तुमिच्छुभिः ।
स चेत्यक्तुं न शक्येत कार्यस्तात्मदर्शिभिः ॥७ 828 ) नाणवो ऽपि गुणा लोके दोषाः शैलेन्द्रसंनिभाः।
भवन्त्यत्र न संदेहः संगमासाद्य देहिनाम् ॥८
अरतिः, शोकः, भयं, जुगुप्सा एते षट् तथा क्रोधः, मानः, माया, लोभश्चेत्येवं चत्वारः कषायाः एवं मिलित्वा चतुर्दश अभ्यन्तरा ग्रन्था भवन्ति । इति सूत्रार्थः ॥५*१।।] अथ योगिनो ऽपि धनाशां विडम्बयन्ति ।
826 ) संवृतस्य-योगिनो ऽपि मनो व्यामुह्यति मोहं याति । कीदृशं मनः । धनाशाव्यालविप्लुतं द्रव्येच्छासर्पविप्लुतं पीडितम् । कोदशस्य योगिनः। संवृतस्य संवरयुक्तस्य, सुवृत्तस्य स्वाचारस्य, जिताक्षस्यापि । इति सूत्रार्थः ॥६।। अथ मुक्तिकामिभिः संगस्त्याज्यः तदाह ।
___827 ) त्याज्य एव-मुनिभिः अखिलः समस्तः संगः त्याज्य एव । कीदृशैर्मुनिभिः । मोक्तुमिच्छभिः । स संगः चेत्त्यक्तु न शक्नोति, तर्हि आत्मदर्शिभिः कार्यः । इति सूत्रार्थः ॥७॥ अथ संगे ऽपि दोषमाह।
828 ) नाणवो ऽपि-अत्र लोके जगति देहिनां संगमासाद्य प्राप्याणवो ऽपि स्तोका अपि गुणाः [ न । ] शैलेन्द्रसंनिभाः पर्वतसदृशाः दोषाः [तु ] भवन्ति, न संदेहः । इति सूत्रार्थः ।।८।। अथान्तरङ्गबाह्यशुद्ध्या शुद्धिमाह ।।
योगी सावद्य प्रवृत्तिसे रहित, सम्यकचारित्रका परिपालक और इन्द्रियों का निग्रह करनेवाला भी क्यों न हो; परन्तु यदि उसका मन धनकी अभिलाषारूप उपद्रवसे व्याप्त है तो वह शीघ्र ही मोहको प्राप्त हो जाता है-मुनिमार्ग से भ्रष्ट हो जाता है ॥६॥
मुक्ति की इच्छा करनेवाले मुनियोंको सब ही संगका-परिग्रहकी संगतिका-परित्याग कर देना चाहिए। और यदि सब प्रकारका संग नहीं छोड़ा जा सकता है तो फिर उन्हें आत्मद्रष्टा योगियोंके साथ उस संगको करना चाहिए-आत्माका अवलोकन करनेवाले महात्माओंकी संगति करनी चाहिए ।। ७॥
परिग्रहीकी संगतिको प्राप्त होकर यहाँ प्राणियोंके गुण तो अणुप्रमाण भी नहीं रहते, परन्तु दोष मेरु पर्वतके समान विशाल हो जाते हैं ॥ ८ ॥
१. L सुगुप्तस्य । २. All others except P M N न शक्नोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |