________________
२८७
-३८]
१६. परिग्रहदोषविचारः 855 ) दुःखमेव धनव्यालविषविध्वस्तचेतसाम् ।
अजेने रक्षणे नाशे पुंसां तस्य परिक्षये ॥३५ 856 ) स्वजातीयैरपि प्राणी सद्यो ऽभिद्रयते धनी ।
यथात्र सामिषः पक्षी पक्षिभिर्बद्धमण्डलैः ॥३६ 857 ) आरम्भो जन्तुघातश्च कषायोश्च परिग्रहात् ।
जायते ऽत्र ततः पातः प्राणिनां श्वभ्रसागरे ॥३७ 858 ) न स्याद् ध्यातुं प्रवृत्तस्य चेतः स्वप्ने ऽपि निश्चलम् ।
मुनेः परिग्रहग्राहैः खण्ड्यमानमनेकशः ॥३८ 855 ) दुःखमेव-पुसां पुरुषाणां तस्य द्रव्यस्य अर्जने उपार्जने दुःखमेव । तस्य रक्षणे दःखमेव । तस्य नाशे दःखमेव । तस्य परिक्षये सामस्त्येन गमने। कोदशानां प'साम। धनव्यालविषविध्वस्तचेतसां धनसर्पविषेण नष्टचित्तानाम् । इति सूत्रार्थः ॥३५॥ अथात्मजनैरपि धनी संताप्यते।
__856 ) स्वजातीयैः-प्राणी जीवो धनी । स्वजातीयैः स्वजनैरपि सद्यस्तत्कालं विद्रूयते संताप्यते । अत्र जगति यथा सामिष: मांसयुक्तः पक्षी। पक्षिभिविद्रूयते। कीदृशैः । बद्धमण्डलैः बद्धश्रेणिभिः । इति सूत्रार्थः ॥३६॥ अथ परिग्रहात् आरम्भादि सर्व जायत इत्याह ।
857 ) आरम्भो-अत्र जगति प्राणिनां परिग्रहात् आरम्भो जायते । च पुनः। जन्तुघातो जायते प्राणिहिंसा । च पुनः । कषायानन्तानुबन्धादि क्रोधादयो जायन्ते। ततः क्रोधादेः श्वभ्रसागरे नरकसमुद्रे पातः पतनं भवेदिति सूत्रार्थः ॥३७।। अथ परिग्रहस्य ध्यानाभावमाह।
___858 ) न स्याद् ध्यातु-मुनेश्चेतः स्वप्ने ऽपि निश्चलं न स्यात् । कीदृशस्य मुनेः । ध्यातुं प्रवृत्तस्य ध्यानोद्यतस्य । कैः । परिग्रहग्राहैः परिग्रहा एव ग्राहाः नक्रमकरादयः, तैः । कीदृशं चेतः। अनेकधा भिद्यमानम् । इति सूत्रार्थः ॥३८॥ संबन्धो दुःखकारणमित्याह ।
जिन मनुष्योंका चित्त धनरूप सर्पके विषसे नष्ट किया गया है-मूर्छाको प्राप्त हुआ है-उनको उस धनके उपार्जन, रक्षण, विनाश और स्वयं क्षयमें दुःख ही होता है ॥३५॥
जिस प्रकार यहाँ मांससे संयुक्त पक्षीको अन्य पक्षी घेरकर पीड़ा पहुँचाते हैं उसी प्रकार धनवान् मनुष्यको अपने कुटुम्बीजन भी घेरकर पीड़ा पहुँचाया करते हैं ॥३६॥
परिग्रहसे आरम्भ, प्राणियोंका संहार और क्रोधादि कषायें उत्पन्न होती हैं तथा उससे प्राणियोंका नरकरूप समुद्र में पतन होता है-नरकमें जाकर उन्हें घोर दुःख सहना पड़ता है ॥३७॥
ध्यानके लिए प्रवृत्त हुए मुनिका परिग्रहरूप हिंस्र जलजन्तुओंके द्वारा अनेक प्रकारसे खण्डित किया जानेवाला मन स्वप्न में भी स्थिर नहीं रह सकता है ॥३८॥
१.1 विद्रयते.Y ऽभिभूयते । २. M N LT कषायश्च । ३. All others except PN T जायते । ४. All others except P ग्राभिद्यमानमनेकधा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org