________________
-२० ]
१०. चौर्य परिहार:
590 ) आस्तां परधनादित्सां कर्तुं स्वप्ने ऽपि धीमताम् । तृणमात्रमपि ग्राह्यं नादत्तं दन्तशुद्धये ॥१८ 591 ) अतुलसुखसिद्धिहेतोर्धर्मयशश्चरणरक्षणार्थं च । इह परलोकहितार्थं च कुरु स्वप्नेऽपिं मा चौर्यम् ॥१९ 592) विषयविरतिमूलं संयमोङ्गशाखं ' यमदलशमपुष्पं ज्ञानलीलाफलाढ्यम् । विबुधजनशकुन्तैः सेवितं धर्मवृक्षं दहति मुनिरपीह स्तेयतीवानलेन ||२०
3
590 ) आस्तां पर — धीमतां बुद्धिमतां स्वप्नेऽपि तृणमात्रमप्यदत्तं न ग्राह्यं दन्तशुद्धये । परधनादित्सां परद्रव्यग्रहणेच्छां कतु दूरे आस्ताम् । इति सूत्रार्थः || १८ || अथ इहलोके परलोके च चौयं निषेधति । आर्या ।
591 ) अतुल सुख - इह परलोकहितार्थं चित्ते चौर्यंमाकलयतः । पुनः किमर्थम् । अतुल सुखसिद्धि हेतोर्बहुसुख सिद्धिनिमित्ताय । च पुनः । धर्मयशश्चरणरक्षणार्थं चरणं चारित्रं, शेषं सुगमं तदर्थम् । इति सूत्रांर्थः ||१९|| अथ तमुपसंहरति । मालिनी छन्दः ।
२०७
1
592) विषयविरति - इह जगति मुनिरपि स्तेय तीव्रानलेन चौयंतीव्राग्निना धर्मवृक्षं दहति । कीदृशं धर्मवृक्षम् । विषयविरतिमूलम् इन्द्रियव्यापारप्रत्याख्यामूलम् । पुनः कीदृशम् । संयमोद्दा *मशाखं चारित्रोत्कटशाखम् । यमा एव शम एव पुष्पाणि, यमदलानि च शमपुष्पाणि च यमदलशमपुष्पम् । पुनः कीदृशम् । ज्ञानलीलाफलाढ्यं ज्ञानक्रीडाफल पूर्णम् । पुनः कीदृशम् । विबुधजनशकुन्तैः शकुन्ताः पक्षिणः तैः सेवितमित्यर्थः ||२०||
I
बुद्धिमान पुरुषोंके परधन ग्रहण करनेकी इच्छा तो स्वप्न में भी दूर रहे, उन्हें तो दाँतों की शुद्धिके लिए - उन्हें स्वच्छ करनेके लिए - बिना दिये हुए तृणमात्र ( दातौन ) को नहीं ग्रहण करना चाहिए ||१८||
Jain Education International
अनुपम सुखकी सिद्धिके लिए; धर्मं, यश और चारित्रकी रक्षा के लिए, तथा इस लोक और परलोकसम्बन्धी हितके लिए चोरीको चित्तमें भी नहीं करो - मनसे चोरीका विचार भी न करो ||१९||
जो धर्मरूपी वृक्ष विषयविरतिरूप जड़से स्थिर, संयमरूप ऊँची शाखाओंसे विस्तृत, महाव्रतोंरूप पत्तों एवं कषायोपशमरूप पुष्पोंसे सुशोभित, ज्ञानकी लीलारूप फलोंसे संयुक्त और पण्डितजनरूप पक्षियोंसे सेवित है; उसे मुनि भी यहाँ चोरीरूप तीव्र अग्निके द्वारा जला डालता है ॥२०॥
१. MN दित्सा, P = ग्रहणेच्छां । २. All others except P चित्तेऽपि । ३. L SF VJ R "मोद्दामशाखं ।
For Private & Personal Use Only
www.jainelibrary.org