________________
XI
[ कामप्रकोपः ]
593 ) विदन्ति परमं ब्रह्म यत्समालम्ब्य योगिनः । तद्व्रतं ब्रह्मचर्यं स्याद्वीरधौरेयगोचरम् ॥१
594 ) सप्रपञ्चं प्रवक्ष्यामि ज्ञात्वेदं गहनं व्रतम् ।
स्वल्पो ऽपि न सतां क्लेशः कार्यो ऽस्यालोक्यं विस्तरम् ॥२
595 ) एकमेव व्रतं श्लाघ्यं ब्रह्मचर्यं जगत्त्रये । यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥ ३
593 ) विदन्ति तद् ब्रह्मचर्यं व्रतं स्यात् यद् ब्रह्मचर्यं समालम्ब्य आश्रित्य । परमं ब्रह्म परमं ज्ञानं विदन्ति जानन्ति योगिनः । कोदृशम् । *वीरधौरेयगोचरम् । धौरेयाः प्रधानाः तेषां गोचरम् । इति सूत्रार्थः || १ || अथ तत् सविस्तरमाह ।
594 ) सप्रपञ्चं - इदं गहनं तुर्यव्रतं ज्ञात्वा सप्रपञ्चं सविस्तरं प्रवक्ष्यामि । अस्य व्रतस्य विस्तरमालोक्य स्वल्पो ऽपि क्लेशः सतां सत्पुरुषाणां न कार्यः । इति सूत्रार्थः ||२|| अथ तस्य माहात्म्यमाह ।
(595) एकमेव - जगत्त्रये ब्रह्मचर्यमेकमेव व्रतं श्लाघ्यम् । यद्विशुद्धि समापन्ना ब्रह्मविशुद्धिमाश्रिताः पूजितैरपि पूज्यन्ते । इति सूत्रार्थः ॥ ३॥ अथ पुनस्तत्स्वरूपमाह ।
Jain Education International
जिसका आलम्बन लेकर योगीजन उत्कृष्ट आत्माको जानते हैं तथा जो वीर धुरंधरोंका विषय है --जिसके बोझको वीर धुरंधर ही धारण करते हैं - वह ब्रह्मचर्यव्रत है ॥१॥
इस व्रतको गहन जानकर मैं उसका विस्तारपूर्वक कथन करूँगा । इसके विस्तारको देखकर साधुजनों को थोड़ा-सा भी क्लेश नहीं करना चाहिए ||२||
तीनों लोकों में वह एक ही ब्रह्मचर्यव्रत प्रशंसनीय है जिसकी विशुद्धिको प्राप्त होकर साधुजन पूजित जनोंके द्वारा भी पूजे जाते हैं || ३ ||
१. All others except P LF विन्दन्ति । २P ] स्याद्वीर । ३. M N कार्य स्याल्लोकविस्तरं ।
J
२७
For Private & Personal Use Only
www.jainelibrary.org