________________
ज्ञानार्णवः
[२.११८ -
169 ) अजिनपटलगूढं पञ्जरं कीकसानां
कुथितकुणिपंगन्धैः पूरितं मूढ गाढम् । यमवदननिषण्णं रोगभोगीन्द्रगेहं कथमिह मनुजानां प्रीतये स्याच्छरीरम् ॥११८
[इति] अशुचित्वम् । [६] 170 ) मनस्तनुवचःकर्म योग इत्यभिधीयते ।
स एवास्रव इत्युक्तस्तत्त्वज्ञानविशारदैः ॥११९ 171 ) वाधैरन्तः समादत्ते यानपात्रं यथा जलम् ।
'छिट्टै वस्तथा कर्म योगरन्ध्रः शुभाशुभैः ॥१२०
169 ) अजिनपटल-इह संसारे हे मूढ, मर्ख, मनुजानां मनुष्याणां शरीरं कथं प्रीतये स्यात् । कथंभूतं शरीरम् । अजिनपटलगूढम् । चर्मसमूहाच्छादितम् । पुनः कीदृशं शरीरम् । कोकसानामस्थिविशेषाणां पजरम् । पुनः कीदृशं शरीरम् । कुथितकुणिपं मांसविशेषः तेन पूरितं भृतम् । पुनः कीदृशम् । यमवदननिषण्णं मृत्युमुखस्थितम् । पुनः कीदृशम् । रोगभोगीन्द्रगेहं रोगमहोरगगृहमिति सूत्रार्थः ॥११८॥ इति अशुचिभावना समाप्ता॥ अथास्रवमाह ।
___170) मनस्तनुवचः-तत्त्वज्ञानविशारदैरिति स एवास्रव उक्तः । सः कः । यो मनस्तनुवचः कर्मयोग इत्यभिधीयते इति श्लोकार्थः ॥११९॥ अथ तस्यैव विशेषमाह ।
____171 ) वाधैरन्तः समादत्ते-यथेति दृष्टान्तोपन्यासे । यानपात्रं छिद्रैः विवरैः जलं वार्धरन्तः समुद्रमध्ये आदत्ते गृह्णाति तथा जीवः शुभाशुभैः योगरन्धैः कर्म आदत्ते इति सूत्रार्थः ॥१२०।। अथास्रवस्यैव शुभाशुभत्वमाह ।
जो यह मनुष्योंका शरीर चमड़ेके समूहसे ढका हुआ, हड्डियोंका ढाँचा, सड़े-गले मृत शरीर (मुर्दा) के समान दुर्गन्धसे अतिशय परिपूर्ण, यमके मुखमें बैठा हुआ-नाशोन्मुख
और रोगरूप भयानक साँका स्थान है वह यहाँ मनुष्योंको प्रीतिका कारण कैसे हो सकता है ? नहीं हो सकता-वह सर्वथा ही अनुरागके योग्य नहीं है ॥११८॥ अशुचिभावना समाप्त हुई।
७. आस्रवभावना-मन, शरीर और वचनकी क्रियाको योग कहा जाता है । इस योगको ही तत्त्वज्ञानसे परिपूर्ण आचार्य उमास्वामी ( तत्त्वा. ६-१) आदिने आस्रव कहा है ।।११९।।
जिस प्रकार नाव या जहाज छेदोंके द्वारा जलको भीतर ग्रहण किया करती हैं उसी प्रकार जीव शुभ और अशुभ योगरूप छेदोंके द्वारा कर्मको ग्रहण किया करता है ॥१२०॥
१. M N T F V C Y कुणपगन्धैः । २. P छिद्रं जीव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org