________________
९४
ज्ञानार्णवः
(275) पुण्याशयवशाज्जातं शुद्धश्यावलम्बनात् । चिन्तनाद्वस्तुतत्त्वस्य प्रशस्तं ध्यानमुच्यते ॥ २९ 276 ) पापाशयवशान्मोहान्मिथ्यात्वाद्वस्तुविभ्रमात् । कषायैर्जन्यते ऽजस्रमसद्ध्यानं शरीरिणाम् ॥३० 277) क्षीणे रागादिसंताने प्रसन्ने चान्तरात्मनि ।
यः स्वरूपोपलम्भः स्यात् स शुद्धाख्यः प्रकीर्तितः ॥ ३१ 278 ) शुभध्यानफलोद्भूतां श्रियं त्रिदिवसंभवाम् । निर्विशन्ति नरा नाके क्रमाद्यान्ति परं पदम् ||३२
275 ) पुण्याशयवशाज्जातं -ध्यानं प्रशस्तं तदुच्यते । तत्किम् । यत् पुण्याशयवशाज्जातम् । कस्मात् । शुद्धलेश्यावलम्बनात् शुभादिलेश्यात्रयावलम्बनात् । वस्तुतत्त्वस्य चिन्तनात् इति सूत्रार्थः ||२९|| अथ सद्ध्यानमाह ।
[ ३.२९
276) पापाशयवशात् - शरीरिणाम् असद्ध्यानं तद् उच्यते यद् अजस्रं निरन्तरं कषायाज्जायते । कस्मात् । वस्तुविभ्रमात् । पुनः कस्माज्जायते । पापाशयवशात् । मोहात् मिथ्यात्वात् जायते इति सूत्रार्थः ||३०|| अथ शुद्धाशयमाह ।
277) क्षीणे रागादिसंताने - यः स्वरूपोपलम्भः स्यात् । क्व । आत्मनि । कीदृशे । प्रसन्ने । क्व सति । रागादिसंताने क्षीणे इति सूत्रार्थः ||३१|| अथ शुभध्यानमाह ।
278 ) शुभध्यान- नराः नाके श्रियं निर्विशन्ति भुञ्जते । कथंभूतां श्रियम् । त्रिदिवसंभवां देवसंबन्धिनीम् । पुनः कीदृशीम् । शुभध्यानफलोद्भूताम् । क्रमात् अनुक्रमात् परं पदं मोक्षं यान्ति इति सूत्रार्थः ॥ ३२॥ [ दुर्ध्यानस्य फलमाह ।
• उनमें शुभ उपयोगके वश शुद्ध लेश्याके आश्रयसे जो वस्तुस्वरूपका चिन्तन किया जाता है उससे उत्पन्न हुआ ध्यान प्रशस्त ध्यान कहा जाता है ॥२॥
अशुभ उपयोगके वश प्राणियोंके मृढ़ता, मिथ्यात्व, वस्तुस्वरूपकी विपरीतता और कषायोंके निमित्तसे निरन्तर अप्रशस्त ध्यान हुआ करता है । अभिप्राय यह है कि अशुभ उपयोगके वशीभूत प्राणीके मोहादिके निमित्तसे जो आर्त व रौद्र स्वरूप चिन्तन होता है उसका नाम अप्रशस्त ध्यान है ||३०||
Jain Education International
राग-द्वेषादिकी परम्पराके नष्ट हो जानेसे अन्तरात्मा के प्रसन्न होनेपर - स्व पर विवेक के प्रगट हो जानेपर - जो आत्मस्वरूपकी उपलब्धि होती है उसे शुद्ध ध्यान कहा जाता है ॥ ३१ ॥ मनुष्य (प्राणी) देवलोकमें जाकर शुभ ध्यानके फल ( पुण्य ) से उत्पन्न हुई स्वर्गीय लक्ष्मीको भोगते हैं और फिर क्रमसे उत्कृष्ट पद (मोक्ष) को प्राप्त होते हैं ||३२||
१. M N वशाज्जन्तोः । २. All others except P कषायाज्जायते । ३. FV C स्वरूपोपलब्धिः । ४. MSVBCR त्रिदशसंभवाम् ।
For Private & Personal Use Only
www.jainelibrary.org