________________
१६४
ज्ञानार्णवः
457 ) कल्पनातीतमभ्रान्तं स्वपरार्थावभासकम् । जगज्ज्योतिरसंदिग्धमनन्तं सर्वदोदितम् ॥ ९
458) अनन्तानन्तभागे ऽपि यस्य लोकश्चराचरः । अलोकश्च स्फुरत्युच्चैस्तज्ज्योतिर्योगिनां मतम् ॥१० 459 ) अगम्यं यन्मृगाङ्कस्य दुर्भेदं यद्रवेरपि ।
*
तदुर्बोधोत्थितं ध्वान्तं ज्ञानभेद्यं प्रकीर्तितम् ॥११
457) कल्पनातीतम् - कीदृशं ज्ञानम् । कल्पनातीतं प्रसिद्धम् । अभ्रान्तं भ्रान्तिरहितम् । पुनः कीदृशम् । स्वपरार्थावभासकम् । पुनः कीदृशम् । जगज्ज्योतिः । पुनः कीदृशम् | असंदिग्धं संदेहरहितम् । पुनः कीदृशम् | अनन्तविषयम् । पुनः कीदृशम् । सर्वदोदितं सर्वदोदयमिति सूत्रार्थः ||९|| अथ लोकस्वरूपमाह ।
[ ७.९
458 ) अनन्तानन्त – उच्चैर्यथा स्यात् अलोकः स्फुरति । स अलोकः योगिनां तज्ज्योतिर्मतम् । च पादपूरणे । स कः । यस्यालोकस्यानन्तानन्त भागो लोकश्चराचरो वर्तते । इति सूत्रार्थः ॥ १० ॥ अथ ज्योतिः स्वरूपमाह ।
459 ) अगम्यं - यज्ज्योतिर्मृगाङ्कस्येन्दोरगम्यं गमनायोग्यम् यज्ज्योती रवेः सूर्यस्य दुर्भेदं भेदनाशक्यमित्यर्थः । अपि पक्षान्तरे । पुनः कीदृशम् । यज्जोतिस्तद् "दुर्बोधोद्धतध्वान्तं विस्तीर्णाज्ञानोत्कटान्धकारं ज्ञानभेद्यं प्रकीर्तितमिति सूत्रार्थः ॥ ११॥ अथ ज्ञानमाहात्म्यमाह ।
यह केवलज्ञान कल्पनासे रहित, भ्रान्तिसे रहित, स्व और पर दोनों ही पदार्थों को प्रकाशित करनेवाला, विश्वको प्रकाशित करनेवाली अपूर्व ज्योति, सन्देहसे रहित, प्रमाण में अनन्त और सर्वदा उदित रहनेवाला है -सूर्य-चन्द्रके समान कभी अस्त होनेवाला नहीं
॥९॥
Jain Education International
जिस केवलज्ञानरूप ज्योतिके अनन्तानन्तवें भागमें भी त्रस व स्थावर प्राणियोंसे व्याप्त समस्त लोक और अलोक भी स्पष्टतया प्रतिभासित होता है वह केवलज्ञानरूप ज्योति योगियोंके मानी गयी है । तात्पर्य यह कि तपश्चरणके द्वारा चार घातिया कर्मों के नष्ट कर देनेपर वह केवल ज्योति योगियोंको ही प्राप्त होती है ||१०||
मिथ्याज्ञानसे उत्पन्न हुए जिस अज्ञानरूप अन्धकारको न चन्द्रमा नष्ट कर सकता है। और न सूर्य भी नष्ट कर सकता है उस अज्ञानान्धकारको नष्ट करनेवाला ज्ञान बतलाया है ||११||
१. B नन्तभागो ऽपि । २. All others except PF दुर्भेद्यं । ३. All others except P दुर्बोधोद्धतं । ४. MNT C 'बधोद्धतध्वान्तं ।
For Private & Personal Use Only
www.jainelibrary.org