________________
VIII
[ अहिंसाव्रतम् ]
472 ) यद्विशुद्धेः परं धाम यद्योगिजनजीवितम् । तद्वृत्तं सर्वसावद्यपर्युदासैकलक्षणम् ॥१ 473 ) सामायिकादिभेदेन पञ्चधा परिकीर्तितम् । वृषभादिजिनैः पूर्वं चारित्रं सप्रपञ्चकम् ॥ २
472 ) यद्विशुद्धेः – तद् वृत्तं चारित्रं भवति । कीदृशम् | सर्वंसावद्यपर्युदासैकलक्षणं सर्वपापाभावेकलक्षणम् । तत्किम् । यत् चारित्रं विशुद्धेः परं प्रकृष्टं धाम गृहं यत् चारित्रं योगिजन - जीवितमिति सूत्रार्थः ॥ १॥ तस्य विशेषमाह ।
473 ) सामायिकादि - वृषभादिजिनैः पूर्वं चारित्रं सामायिकादिभेदेन पञ्चधा परिकीतितम् । सामायिकं दिग्देशानर्थदण्डविरतिः । तच्च द्विविधम् । नियतकालमनियतकालं च । स्वाध्यायादि नियतकालम् । ईर्यापथाद्य नियतकालम् । प्रमादकृतानर्थं प्रबन्धविलोपे सम्यक्प्रतिक्रिया च्छेदोपस्थापनं विकल्पनिवृत्तिर्वा । परिहरणं परिहारः प्राणिवधान्निवृत्तिः तेन विशिष्टा शुद्धिर्यस्मिस्तत्परिहारविशुद्धिचारित्रम् । अतिसूक्ष्मकषायत्वात् सूक्ष्मसांपरायं चारित्रम् । मोहनीयस्य निरवशेषस्योपशमात् क्षयात् च आत्मस्वभावावस्थोपेक्षालक्षणं यथाख्यातचारित्रम् । तेषां भेदेन पञ्चधोकम् । कीदृशं चारित्रम् । सप्रपञ्चं सविस्तारमिति सूत्रार्थः ||२|| पुनश्चरणस्वरूपमाह । आर्या ।
I
जो विशुद्धिका उत्कृष्ट स्थान है, योगीजनोंका जीवन (प्राण) है, तथा समस्त पापका परित्याग ही जिसका लक्षण है उसका नाम चारित्र है । अभिप्राय यह कि समस्त पापके परित्यागको चारित्र कहते हैं और वह योगियोंके होता है। उससे आत्मा अतिशय निर्मल होती है ॥१॥
ऋषभादि तीर्थंकरोंने पूर्व में उस चारित्रको सामायिक आदि ( सामायिक, छेदोपस्थापना, परिहारविशुद्धि, सूक्ष्मसाम्पराय और यथाख्यात ) के भेदसे पाँच प्रकारका विस्तारपूर्वक कहा है ॥२॥
Jain Education International
१. P writes this on the margin, MN Om। २. All others except P X ऋषभादि । २२
For Private & Personal Use Only
www.jainelibrary.org