________________
१८९
९. सत्यव्रतम् 534 ) अनेकजन्मजक्लेशशुद्धयर्थ यस्तपस्यति ।
सर्वसत्त्वहितं शश्वत्स ब्रूते सूनृतं वचः॥४ 535 ) सूनृतं करुणाक्रान्तमविरुद्धमनाकुलम् ।
___ अग्राम्यं गौरवाश्लिष्टं वचः शास्त्रे प्रशस्यते ॥५ 5 36 ) मौनमेव हितं पुंसां शश्वत्सर्वार्थसिद्धये ।
वचो वाति प्रियं तथ्यं सर्वसत्त्वोपकारि यत् ॥६ 537 ) यो जिनैर्जगतां मार्गः प्रणीतो ऽत्यन्तशाश्वतः।
असत्यबलतः सो ऽपि निदेयैः कथ्यते ऽन्यथा ॥७ 534 ) अनेकजन्मज-यस्तपस्वी अनेकजन्मजक्लेशशुद्धयर्थं प्राग्जन्मोत्पन्नक्लेशशुद्धये तपस्यति, स नरः शश्वन्निरन्तरं सर्वसत्त्वहितं सर्वजीवोपकारकं वचः सूनृतं ब्रूते कथयति, इति सूत्रार्थः ।।४।। अथ वचःस्वरूपमाह।।
535 ) सनतं-एतादशं वचः शास्त्रे प्रशस्यते श्लाघ्यते। कोदशं वचः। सनतं सत्यम् । पुनः कीदृशम् । करुणाकान्तं दयाव्याप्तम् । पुनः कीदृशम् । अविरुद्धं पूर्वापराविरोधि । अनाकुलम् । पुनः कीदृशम् । सकोमलम् । पुनः कीदृशम् । गौरवाश्लिष्टं गम्भीरमिति सूत्रार्थः ॥५॥ पुनस्तत्स्वरूपमाह।
536 ) मौनमेव हितं यत् यस्मात् कारणात् मौनमेव पुंसां पुरुषाणां हितं हितकारि । शश्वनिरन्तरं सर्वार्थसिद्धये वचो वाचि* वक्तव्यम् । कीदृशम् । प्रियं मनोहरम् । पुनः कीदृशम् । तथा सत्यं सर्वसत्त्वोपकारकम् , इत्यर्थः ।।६।। अथ जिनप्रणीतमार्गो ऽपि असत्यबलाद् विपरीत इत्याह ।
537 ) यो जिनैर्जगतां-[ यः सदाचरणात्मको मार्गो ऽत्यन्तशाश्वतः भगवद्भिजिनेश्वरैः प्राणिमात्राय दर्शितः स दयाहीनः पाखण्डिभिरसत्यबलेनान्यथा कथित इत्यर्थः ॥७॥ अथ लोकस्वरूपमाह।
जो मुनि अनेक जन्मसे उत्पन्न हुए कष्टको दूर करनेके लिए तपश्चरण करता है वह निरन्तर समस्त प्राणियोंको हितकर सत्य वचनको बोलता है ॥४॥
जो वचन सत्य, दयासे व्याप्त, विरोधसे रहित, आकुलताको दूर करनेवाला, ग्राम्यस्वरूपसे रहित ( सभ्य व शिष्ट ) और गौरवसे आलिंगित-महानताका कारण हो उसकी शास्त्रमें प्रशंसा की जाती है ।।५।।
मनुष्योंको सब ही प्रयोजनोंकी सिद्धिका कारणभूत निरन्तर मौन ही हितकर है, अथवा वह वचन हितकर है जो कि अतिशय प्रिय, यथार्थ और सब प्राणियोंका उपकारक हो ॥६॥
जिन भगवान्ने संसारी प्राणियोंके लिए जिस अनन्त और अविनश्वर मार्ग ( मोक्षमार्ग )का उपदेश दिया है उसका भी वर्णन दुष्टजन असत्यके बलसे विपरीत करते हैं ।।७।। १. All others except P M सर्वं सत्त्व । २. All others except P M N वाचि प्रियं । ३. J प्रियं तस्य । ४. M N सत्त्वोपकारक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org