________________
१९६
ज्ञानार्णवः
[९.२८
558 ) न हि सत्यप्रतिज्ञस्य पुण्यकर्मावलम्बिनः ।
प्रत्यूहकरणे शक्ता अपि दैत्योरगादयः ॥२८ 559 ) चन्द्रमूर्तिरिवानन्दं वर्धयन्ती जगत्त्रये ।
स्वगिभिर्धियते मू| कीर्तिः सत्योत्थिता नृणाम् ॥२९ 560 ) खण्डितानां विरूपाणां दुर्विधानां च रोगिणाम् ।
कुलजात्यादिहीनानां सत्यमेकं विभूषणम् ॥३० 561 ) यस्तपस्वी जटी मुण्डो नग्नो वा चीवरावृतः ।
सो ऽप्यसत्यं यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥३१ 558 ) न हि सत्य-सत्यप्रतिज्ञस्य सत्यव्रताङ्गोकारिणः प्रत्यूहकरणे विघ्नकरणे दैत्योरगादयो ऽसुरपन्नगाः । अपि हि निश्चितम् । न शक्ताः समर्था भवेयुः । कीदृशस्य । पुण्यकर्मावलम्बिनः पुण्यकर्माश्रितस्येत्यर्थः ॥२८।। अथ सत्यवादिनां माहात्म्यमाह।
559 ) चन्द्रमूर्तिरिव-नृणां मनुष्याणां सत्योत्थिता कोतिः स्वगिभिः मूर्ना ध्रियते । स्वर्गिभिर्दवै| मस्तकेन । के केव। जगत्त्रये, उभयत्र योज्यम् । चन्द्रमूतिरानन्दं वर्धयन्ती स्वर्गिपध्रियते तथेत्यर्थः ।।२९।। अथ सत्यस्य सर्वदोषाभावत्वमाह।
___560 ) खण्डितानां-एतेषां सत्यमेव विभूषणमाभरणम् । केषाम् । खण्डिताना हस्ताद्यवयवरहितानां विरूपाणां कुरूपाणां दुर्विधानां दुष्टानाम् । च पुनः। रोगिणां कुलजात्यादिहीनानाम् । इति सूत्रार्थः ॥३०॥ अथासत्यवादिनां नित्यत्वमाह ।
561 ) यस्तपस्वो-यस्तपस्वी तपोयुक्तः जटो जटावान् । मुण्डो कृतलोचादिः । नग्नो वस्त्ररहितः । वा अथवा । चीवरावृतः वस्त्रयुक्तो भवति । सो ऽप्येतादृशो ऽपि यद्यसत्यं ब्रूते, तदा
जो पुण्यशाली मनुष्य सत्यपर दृढ़ रहता है उसके अभीष्टमें बाधा पहुँचानेके लिए दैत्य और सर्प आदिमें कोई भी समर्थ नहीं है ॥२८॥
तीनों लोकोंमें चन्द्रमूर्तिके समान आनन्दके समुद्रको बढ़ानेवाली जो मनुष्योंकी कीर्ति सत्यसे उत्पन्न होती है उसे स्वर्गवासी देव शिरसे धारण करते हैं। अभिप्राय यह है कि सत्यवक्ताकी देव भी प्रशंसा किया करते हैं ॥२९॥
जिनके हाथ-पैर आदि अंग-उपांग खण्डित हैं, जो कुरूप हैं, दौर्भाग्यसे युक्त (पापिष्ठ) हैं, रोगी हैं, तथा कुल व जाति आदिसे हीन हैं; उन सब ही का भूपग एक सत्य है ॥३०॥
__ जो तपस्वी हो, जटाओंको धारण करता हो, शिरके मुण्डनसे संयुक्त हो, वस्त्रसे रहित ( नग्न ) हो, अथवा वस्त्रसे वेष्टित हो; वह भी यदि असत्य वचन बोलता है तो उसे चाण्डालसे भी निन्दनीय समझना चाहिए ॥३१॥
१. M प्रतिज्ञास्य । २. M N जटी दण्डी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.