________________
१६६
[७.१६
ज्ञानार्णवः 464 ) क्षीणतन्द्रा जितक्लेशा वीतसंगाः स्थिराशयाः।।
तस्यार्थे ऽमी तपस्यन्ति योगिनः कृतनिश्चयाः ॥१६ 465 ) वेष्टयत्यात्मनात्मानमज्ञानी कर्मबन्धनैः ।
विज्ञानी मोचयत्येव प्रबुद्धः समयान्तरे ॥१७ 466 ) यजन्मकोटिभिः पापं जयत्यज्ञस्तपोबलात् ।
तद्वि ज्ञानी क्षणार्धेन दहत्यतुलविक्रमः ॥१८ 467 ) ज्ञानपूर्वमनुष्ठानं निःशेष यस्य योगिनः।
न तस्य बन्धमायाति कर्म कस्मिन्नपि क्षणे ॥१९
464 ) क्षीणतन्द्राः-अमी योगिनः तस्यार्थे बोधार्थे कृतनिश्चयाः तपस्यन्ति । कोदशा योगिनः । क्षीणतन्द्राः गतालस्याः । पुनः कीदृशाः । जितक्लेशाः। पुनः कीदशाः। वीतसंगाः संगरहिताः । पुनः कीदृशाः । स्थिराशयाः निश्चलचित्ताः । इति सूत्रार्थः ॥१६।। पुनस्तदेवाह ।
465 ) वेश्यति-अज्ञानी ज्ञानरहितः पुमान् आत्मनात्मानं वेष्टयति । कैः कर्मबन्धनैः । तद्विपक्षतामाह । विज्ञानी मोचयत्येव दूरीकरोत्येव । समयान्तरे कालान्तरे प्रबुद्धः सन् । इत्यर्थः ॥१७।। पुनर्ज्ञानस्वरूपमाह ।।
466 ) यज्जन्म-अज्ञो मूर्यो यत्पापं तपोबलाज्जन्मकोटिभिर्जयति । तद्विज्ञानी पापं क्षणार्धेन दहति । कीदृशो विज्ञानी । अतुलविक्रमः महाबलः । इति सूत्रार्थः ॥१८॥ पुनस्तदेवाह ।
467 ) ज्ञानपूर्वम्-यस्य योगिनः ज्ञानपूर्वमनुष्ठानं निःशेषं तस्य कर्मबन्धं कस्मिन्नपि क्षणे नायाति । इति सूत्रार्थः ।।१९।। अथ तद्विपरीतमाह ।
आलस्यसे रहित, क्लेशोंके विजेता ( कष्टसहिष्णु ), परिग्रहसे रहित और मनमें दृढ़ताको धारण करनेवाले ये योगीजन तत्त्वका निश्चय करके उस ज्ञानके लिए ही तपश्चरण करते हैं ॥१६॥
अज्ञानी जीव अपनेआपको अपने द्वारा ही कर्मरूप बन्धनोंसे वेष्टित करता है, और इसके विपरीत विवेकी जीव प्रबोधको प्राप्त होकर एक समयके भीतर उन कर्म-बन्धनोंसे अपनेको छुड़ाता है ॥१७।।।
___ अज्ञानी जीव जिस पापको तपके प्रभावसे करोड़ों जन्मोंमें जोतता है उसे विशिष्ट ज्ञानी जीव अनुपम पराक्रमसे आधे क्षणमें ही जला डालता है ॥१८॥
जिस योगीका सब ही आचरण ज्ञानपूर्वक होता है उस योगीके किसी भी क्षणमें कर्म बन्धको नहीं प्राप्त होता है ॥१९॥
१. NJ interchange Nos. 18-19 । २. Y क्षपयत्यज्ञस्तपो। ३. N तद्धि ज्ञानी। ४. Tv CJ X Y R interchange Nos. 19-20 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .