________________
१२४
ज्ञानार्णवः
357 ) सत्संयमधुरा धीरैर्न हि प्राणात्ययेऽपि यैः । त्यक्ता महत्त्वमालम्ब्य ते हि ध्यानधनेश्वराः ||४ 358 ) परीषहमहाव्यालैग्रम्यैर्वाक्कण्टकैर्दृढैः ।
मनागपि मनो येषां न स्वरूपात्परिच्युतम् ||५ 359 ) क्रोधादिभीमभोगीन्द्रे रागादिरजनीचरैः ।
अजय्यैरपि विध्वस्तं न येषां यमजीवितम् ||६ (360) मनः प्रीणयितुं येषां क्षमास्ता दिव्ययोषितः । मैत्र्यादयः सतां सेव्या ब्रह्मचर्ये ऽप्यनिन्दिते ॥७
357 ) सत्संयमधुरा — यैः प्राणात्यये ऽपि प्राणनाशे ऽपि सत्संयमधुरा न हि त्यक्ता । कीदृशैः । धीरैः । हि यस्मात् । ते ध्यानधनेश्वराः । किं कृत्वा । महत्त्वं समालम्व्याश्रित्येति सूत्रार्थः ॥ ४॥ अथ तेषां मनः परीष हैर्न च्याव्यते तानाह ।
(358) परीषह महाव्यालैः येषां स्वरूपात् मनो मनागपि न परिच्युतं नष्टम् | कैः । परोह - महाव्यालैः सर्वैः । ग्राम्यैर्ग्रामजनसंजातैर्वाक्कण्टकैः । कीदृशैः । दृढेरिति सूत्रार्थः ||५|| अथ व्रतानां दृढतरत्वमाह ।
[ ५.४
359 ) क्रोधादिभोम भोगीन्द्रः - ( येषां मुनीनां यमजीवितं संयमजीवनं न विध्वस्तं विनाशितम् । कैः । क्रोधादिभिः कषायैः एव भीमभोगोन्द्रः भयंकर सर्वैः । रागादिभिः रागद्वेषरूपैः रजनीचरैः राक्षसैः । कथम् | अजस्र सततम् । इति सूत्रार्थः || ६ || ] | अथ ब्रह्मचर्यं स्वरूपमाह ।
1
360 ) मनः प्रीणयितुं — येषां ताः दिव्ययोषितः मनः प्रीणयितुं मनो मोदयितुं क्षमाः समर्थाः । तेषां सतां मैत्र्यादयः अनिन्दिते ऽपि ब्रह्मचर्ये सेव्याः । इति सूत्रार्थः ॥ ७॥ अथ तपोविशेषमाह ।
जो धैर्यशाली महामुनि अपनी महानताका आश्रय लेकर प्राणोंके नष्ट होनेपर भी समीचीन संयमके भारको नहीं छोड़ते हैं वे ही वास्तवमें ध्यानरूप धनके स्वामी हैं— उन्हें ही यथार्थ ध्याता समझना चाहिए ||४||
जिनका मन परीषहरूप सर्पों अथवा हाथियोंसे तथा असभ्य व अश्लील वचनरूप दृढ़ काँटोंसे पीड़ित होकर आत्मस्वरूपसे किचित् भी विचलित नहीं हुआ है, जिनके संयमरूप जीवनको -- प्राणोंको अजेय ( अतिशय प्रतापशाली ) भी क्रोधादिरूप भयानक सर्प और रागद्वेषादिरूप राक्षस नहीं नष्ट कर सके हैं, जिनके निर्मल अखण्ड ब्रह्मचर्य के रहने पर भी सत्पुरुषोंके द्वारा सेवनीय मैत्री आदि - मैत्री, प्रमोद, कारुण्य एवं माध्यस्थ्यभावनाओं रूप वे दिव्य स्त्रियाँ मनके प्रसन्न करने के लिए समर्थ हैं, अर्थात् जो मैत्र्यादिभावनाओंका आश्रय
१. All others except P L वा कण्टकैः । २. S कण्टकैर्हः । ३. ४ विस्त्रस्तं न । N न तेषां ।
Jain Education International
For Private & Personal Use Only
४. M
www.jainelibrary.org