________________
-५० ]
६. दर्शनविशुद्धिः
437 ) परस्परप्रदेशानुप्रवेशै जीवकर्मणोः ।
यः संश्लेषः स निर्दिष्टो बन्धो विध्वस्तबन्धनैः ॥४८ 438 ) [ प्रकृति प्रदेशबन्धौ योगभवौ कीर्तितौ समासेन । स्थित्यनुभागविकल्प कपायजौ कीर्तितौ सूत्रे ||४८* १ ] ॥ बन्धः ।।
439 ) प्रागेव भावनातन्त्रे निर्जरात्रवसंवराः ।
कथिताः कीर्तयिष्यामि मोक्षमार्गं सहेतुकम् ॥ ४९
440 ) एवं द्रव्याणि तत्त्वानि पदार्थान् कायसंयुतान् ।
यः श्रद्धत्ते स्वसिद्धान्तात् स स्यान्मुक्तेः स्वयंवरः ||५०
1
Jain Education International
इतरो ऽनुभागबन्धः । तेषां कर्मणां फलोदयः तत्फलोदयः । इति सूत्रार्थः ॥ ४७॥ अथ प्रदेशबन्धमाह ।
437 ) परस्पर - जीवकर्मणोर्यः संश्लेषः संबन्धः स बन्धो निर्दिष्टः । कैः । परस्परप्रदेशानुप्रवेशैरन्योन्यप्रदेशैः । अयःपिण्डवत् अनुप्रवेशः संक्रमः । कैर्निर्दिष्टः । विध्वस्तबन्धनैः दूरीकृतकर्मबन्धैः । इति सूत्रार्थः ॥४८॥ [ अथ चतुर्धा बन्धविधीनाह ।
438 ) प्रकृतिप्रदेश - एते हि प्रकृतिस्थित्यनुभाग प्रदेशाश्चतुर्धा बन्धविधयः । तत्र योगनिमित्तौ प्रकृतिप्रदेशौ । कषायनिमित्तौ स्थित्यनुभागौ चेत्यर्थः || ४८* १ || अथ ग्रन्थार्थमाह ।
439 ) प्रागेव भावना - अस्मिन् ग्रन्थे प्रागेव भावनाधिकारे निर्जरात्रवसंवरा निरूपिताः । अतः परं च मोक्षमार्गो निरूप्यते ॥ ४९|| अथ को मुक्तिभाग् भवति तदाह । ]
440 ) एवं द्रव्याणि - एवंप्रकारेण द्रव्याणि धर्मादीनि तत्त्वानि जोवादीनि पदार्थान् कायसंयुतान्, स्वसिद्धान्तान् * यः श्रद्धत्ते स मुक्तेः स्वयंवरः स्यात् । इति सूत्रार्थः ॥५०॥ अथ जीवादिस्वरूपमुपसंहरति ।
१५५
माना गया है उसे स्थितिबन्ध जानना चाहिए । उक्त कर्मों में जो फलकी उत्पत्ति है - हीनाधिक फल देनेकी शक्तिका आविर्भाव है - उसका नाम अनुभागबन्ध है ॥४७॥
जीव और कर्मका जो एक-दूसरे के प्रदेशों में अनुप्रवेशरूपसे - एक क्षेत्रावगाह स्वरूपसे सम्बन्ध होता है उसे कर्मबन्धसे मुक्त हुए जिनेन्द्र देवने बन्ध ( प्रदेशबन्ध ) कहा है || ४८ || इस प्रकार बन्धतत्त्वका निरूपण समाप्त हुआ ।
निर्जरा, आस्रव और संवरका कथन पहले ही भावना ( द्वादशानुप्रेक्षा ) अधिकारमें किया जा चुका है। अब आगे कारणनिर्देशपूर्वक मोक्षमार्गका वर्णन करूँगा ||४६ ||
इस प्रकार से जो छह द्रव्य, सात तत्त्व, नौ पदार्थ और पाँच अस्तिकाय इनका आगमके अनुसार श्रद्धान करता है वह मुक्तिका स्वयंवर होता है-मुक्ति के द्वारा स्वयं वरण किया जाता है । तात्पर्य यह कि उसे मुक्ति अवश्य ही प्राप्त होती है ॥ ५० ॥
१. MX नुप्रदेशैर्जीव, NSTVCJYR ° नुप्रवेशो जीव । २. M N Read | ३. PLF बन्धः । ४. B J Omit this verse । ५. B सिद्धान्तान् स ।
For Private & Personal Use Only
www.jainelibrary.org