________________
७०
ज्ञानार्णवः
[ २.१४३194 ) विशुध्यति हुताशेन सदोषमपि काञ्चनम् ।
यद्वत्तथैव जीवो ऽयं तप्यमानस्तपो ऽग्निना ॥१४३ 195 ) चमत्कारकरं धीरैर्बाह्यमाध्यात्मिकं तपः ।
तप्यते जन्मसंतानंशङ्कितैरायसूरिभिः ॥१४४ 196 ) तत्र बाह्यं तपः प्रोक्तमुपवासादिषड्विधम् ।
प्रायश्चित्तादिभिर्भेदैराध्यात्मं च [पि ] तद्विधम् ॥१४५ 197 ) ['उपवासादिभिर्भेदैः कायक्लेशाङ्गमूर्जितम् ।
प्रायश्चित्तादिभिर्भेदैराध्यात्म ध्यानलक्षणम् ॥१४५*१] 194) विशुध्यति हुताशेन-यथा सदोषमपि काञ्चनं स्वर्णमपि हुताशेनाग्निना विशुध्यति तथैवायं जीवः तपो ऽग्निना तप्यमानो विशुध्यति विशुद्धो भवति इति सूत्रार्थः ॥१४३।। अथ तपःस्वरूपमाह।
195 ) चमत्कारकरं धीरैः-आर्यसूरिभिः आध्यात्मिकं बाह्यं तपः तप्यते । चमत्कारकरम् आश्चर्यकारकम् । कथंभूतैरार्यसूरिभिः । धीरैः । पुनः कथंभूतैः । जन्मसंतानशङ्कितैः भवपरम्पराशङ्कितैरित्यर्थः ।।१४४।। अथ बाह्यतपोविशेषमाह।
196 ) तत्र बाह्यं तपः-तत्र तपो ऽधिकारे उपवासादि षड्विधं षट्प्रकारं बाह्यं तपः। प्रोक्तम् । च पुनः । षडिवधं षट्प्रकारं प्रायश्चित्तादिभिः भेदैः [ अन्तर् ] अङ्गप्रोक्तम् ।।१४५।। [ तत्र द्विविधं तपो दर्शयति ।
____197 ) उपवासादिभिर्भेदैः-बाह्यं तपः उपवासादिकायक्लेशान्तं षड्भेदं उत्तमं च मतम् । तथैव प्रायश्चित्तादिभेदैः अभ्यन्तरं षड्विधं तपः प्रोक्तम् । तत्र ध्यानं चरमं परमं च मतम् ॥१४५*१॥ ] अथ तपसः कर्मक्षपणत्वमाह ।
जिस प्रकार अग्निके संयोगसे दोषयुक्त-कीट व कालिमासे सहित-भी सुवर्ण शद्ध (निर्दोष ) हो जाता है उसी प्रकार यह संसारी जीव भी तपरूप अग्निसे सन्तप्त होकर शुद्ध हो जाता है-कर्म-मलसे रहित होता हुआ मुक्त हो जाता है ।।१४।।
श्रेष्ठ मुनिजन संसारकी परम्परासे भयभीत होकर साहसपूर्वक आश्चर्यजनक बाह्य एवं अभ्यन्तर तपको तपा करते हैं ॥१४४॥
उनमें उपवास ( अनशन) आदिके भेदसे बाह्य तप छह प्रकारका तथा प्रायश्चित्त आदिके भेदसे अभ्यन्तर तप भी छह प्रकारका कहा गया है ॥१४५।।
तप दो प्रकारका है । बाह्य और आन्तरिक । उपवास, अवमौदार्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्तशय्यासन और कायक्लेश इस तरह छह प्रकारका उत्तम बाह्य तप है और प्रायश्चित्त, विनय, वैयावृत्त्य, स्वाध्याय, व्युत्सगे और ध्यान इस तरह छह प्रकारका आन्तरिक तप है ॥१४५२१॥ १. N जन्मसंताप । २. All others except P भेदैरन्तरङ्गं च षड्विधम् । ३. Found only in F |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org