________________
ज्ञानार्णवः
[२.१८४237 ) अत्यन्तदुर्लभेष्वेषु दैवाल्लब्धेष्वपि क्वचित् ।
प्रमादात् प्रच्यवन्ते ऽत्र केचित् कामार्थलालसाः ॥१८४ 238 ) मार्गमासाद्य केचिच्च सम्यग् रत्नत्रयात्मकम् ।
त्यजन्ति गुरुमिथ्यात्वविषव्यामूढचेतसः ॥१८५ 239 ) स्वयं नष्टो जनः कश्चित् कश्चिन्नष्टैश्च नाशितः ।
कश्चित् प्रच्याव्यते मार्गाच्चण्डपाषण्डशासनैः ॥१८६ 240 ) त्यक्त्वा विवेकमाणिक्यं सर्वाभिमतसिद्धिदम् ।
अविचारितरम्येषु पक्षेप्वज्ञः प्रवतेते ॥१८७ 237 ) अत्यन्तदुर्लभेष्वेषु-अत्र जगति केचित् कामार्थलालसा: कामार्थलम्पटाः प्रमादात् प्रच्यवन्ते । दैवात् कर्मणः एषु क्वचित् शुभायुष्कादिषु लब्धेषु प्राप्तेषु । कीदृशेषु अत्यन्तदुर्लभेषु इति सूत्रार्थः ।।१८४।। अथ प्राप्तमपि रत्नत्रयं केचित्त्यजन्ति तदेव दर्शयति ।
238 ) मार्गमासाद्य-च पुनः । केचित् जीवाः सम्यक् रत्नत्रयात्मकं सम्यग्ज्ञानदर्शनचारित्रात्मकं मार्गम् आसाद्य त्यजन्ति । कोदृशाः जीवाः । गुरुमिथ्यात्वविषव्यामूढचेतसः गरिष्ठमिथ्यात्वगरविमोहितमनसः इति सूत्रार्थः ।।१८५।। अथ पाखण्डानां स्वरूपमाह ।।
239 ) स्वयं नष्टो जनः-चण्डपाखण्डशासनैः रुद्रपाखण्डवचनैः मार्गात् मोक्षमार्गात् प्रच्याव्यते तस्मात् भ्रष्टीक्रियते । कश्चित् जनः स्वयं नष्टः ।* तु पुनः । नष्टैः कश्चित् नाशितः इति सूत्रार्थः ॥१८६।। अथ मूर्खाचरणमाह ।
240 ) त्यक्त्वा विवेकमाणिक्यं-- अज्ञो मूर्खः पक्षेषु स्वमतेषु प्रवर्तते । कथंभूतेषु पक्षेषु । अविचारितरम्येषु इति सुगमम् । किं कृत्वा । विवेकमाणिक्यं त्यक्त्वा। कीदृशं विवेकमाणिक्यम् । सर्वाभिमतसिद्धिदं सर्ववाञ्छितदायकमिति सूत्रार्थः ।।१८७।। अन्यशासनसेवनफलमाह ।
सौभाग्यसे किन्हींके इन अतिशय दुर्लभ साधनोंके प्राप्त हो जानेपर भी उनमें कितने ही प्रमादके वशीभूत होकर काम ( विषयभोग) और धनकी अभिलाषासे यहाँ कल्याणके मार्गसे भ्रष्ट हो जाते हैं ॥१८४।।
कितने ही प्राणी सम्यग्दर्शन, सम्यग्ज्ञान और सम्यकचारित्र इन रत्नोंस्वरूप मोक्षकार्यको पा करके भी तीव्र मिथ्यात्वरूप विषसे मूर्छित होते हुए उसे छोड़ भी देते हैं ॥१८५।।
कोई मनुष्य स्वयं ही कल्याणके मार्गसे भ्रष्ट होता है तो कोई स्वयं भ्रष्ट हुए अन्य मिथ्यादृष्टियोंके द्वारा भ्रष्ट कराया जाता है, तथा कोई तीव्र पाखंडियोंके द्वारा प्रचलित किये गये मतोंके आश्रित होकर भ्रष्ट होता है ।।१८६।। - अज्ञानी प्राणी समस्त अभ ष्ट वस्तुओंको सिद्ध करनेवाले विवेकरूप मणिको छोड़कर विचारके विना ही रमणीय प्रतीत होनेवाले पक्षों ( मतों ) में प्रवृत्त हो जाता है ।।१८७।। १. F V C B J नष्टैस्तु । २. S V C XY प्रच्यव्यते । ३. F V C पक्षेष्वन्यः ।
--------------------
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org