________________
७२
ज्ञानार्णवः
जगत् ।
201 ) पवित्रीक्रियते येन येनैव नमस्तस्मै दयार्द्राय धर्मकल्पाङ्घ्रिपाय वै ॥ १४९ सो ऽयं जिनैर्धर्मः प्रकीर्तितः ।
दशलक्ष्मयुतः यस्यांशमपि संसेव्य विन्दन्ति यमिनः शिवम् ॥। १५० 203 ) न सम्यग्गदितुं शक्यं यत्स्वरूपं कुदृष्टिभिः । हिंसाक्षपोषकैः शास्त्रैरतस्तैस्तन्निगद्यते ॥ १५१ 204 ) चिन्तामणिर्निर्धिर्दिव्यः स्वर्धेनुः कल्पपादपाः । धर्मस्यैते श्रिया सार्धं मन्ये भृत्याश्चिरंतनाः || १५२
202)
201 ) पवित्रीक्रियते येन तस्मै धर्मकल्पाङ्घ्रिपाय धर्मकल्पवृक्षाय नमः । कथंभूताय धर्मकल्पवृक्षाय । दयार्द्राय । येन पवित्रीक्रियते येन एवं जगत् घ्रियते इति सूत्रार्थः || १४९ || धर्मस्य स्वरूपमाह ।
202 ) दशलक्ष्मयुतः - सो ऽयं धर्मो दशलक्ष्मयुतः क्षान्त्यादिदशप्रकारयुक्तो जिनैः प्रकीर्तितः । यस्य धर्मस्य अंशमपि संसेव्य सेवित्वा यमिनः शिवं विदन्ति इति सूत्रार्थः ॥ १५० ॥ अथ कुदृष्टीनां धर्माभावं दर्शयति ।
[ २.१४९ -
203 न सम्यग्गदितं - कुदृष्टिभिः मिथ्यात्विभिः यत्स्वरूपं धर्मस्वरूपं सम्यग्गदितुं कथयितुं न शक्यम् । अतस्तैः कुदृष्टिभिः तद्धर्मस्वरूपं निगद्यते कथ्यते । कैः । शास्त्रैः । कथंभूतैः । हिंसाक्षपोषकैः । इति सूत्रार्थः ॥ १५१ ॥ अथ धर्मस्याधिक्यमाह ।
204 ) चिन्तामणिनिधिः - अहम् एवं मन्ये । धर्मस्यैते चिरन्तनाः भृत्याः वर्तन्ते श्रिया सार्धम् । एते के । चिन्तामणिः रत्नम् । निधिः निधानम् । दिव्यः प्रधानः । स्वर्धेनुः कामधेनुः कल्पपादपाः कल्पवृक्षाः इति सूत्रार्थः || १५२ || अथ धर्मस्य फलमाह ।
१०. धर्मभावना - जो विश्वको पवित्र करता है व उसे धारण करता है उस दयासे आर्द्र (सिंचित ) धर्मरूप कल्पवृक्षके लिए नमस्कार हो || १४९ ||
जिस धर्म के अंशमात्रका भी आराधन करके संयमी जन मोक्षको (अथवा आत्मकल्याणको) जानते हैं उस धर्मको जिन भगवान् ने उत्तम क्षमादिरूप दस लक्षणोंसे संयुक्त बतलाया है || १५० ॥
उस धर्मके स्वरूपको चूँकि मिध्यादृष्टि जन उन हिंसा एवं इन्द्रियोंके पोषक शास्त्रोंके द्वारा नहीं कह सकते हैं, इसीलिये यहाँ उसका स्वरूप कहा जाता है ॥ १५१ ॥
Jain Education International
चिन्तामणि, दिव्य निधि, कामधेनु और कल्पवृक्ष ये सब लक्ष्मीके साथ उस धर्म के चिरकालीन सेवक (दास) हैं; ऐसा मैं समझता हूँ || १५२ ||
१. M N S V C J Y येनैवोद्ध्रयते । २. P नमस्तुभ्यं । ३. PMNLT J विदन्ति, B वदन्ति । ४. B तैश्च निगद्यते । ५. N मणिनिधि । ६. M कल्पपादपः ।
For Private & Personal Use Only
www.jainelibrary.org