________________
-४८]
१. पीठिका 45 ) निष्कलङ्क निराबाधं सानन्दं स्वस्वभावजम् । ___ वदन्ति योगिनो मोक्षं विपक्षं जन्मसंततेः ॥४५ 46 ) जीवितव्ये सुनिःसारे नृजन्मन्यतिदुर्लभे ।
प्रमादपरिहारेण विज्ञेयं स्वहितं नृणाम् ॥४६ 47 ) विचारचतुरैर्धी रैरत्यक्षसुखलालसैः ।
अत्र प्रमादमुत्सृज्य विधेयः परमादरः॥४७ 48 ) न हि कालकलैकापि विवेकविकलाशयः।
अहो प्रज्ञाधनैर्नेयाँ नृजन्मन्यतिदुर्लभे ॥४८ 45 ) निष्कलङ्कं निराबाधं-योगिनः एवंभूतं मोक्षं वदन्ति । कथंभूतम् । निष्कलङ्गं कलङ्करहितम् । पुनः कथंभूतम् । निराबाधं, बाधारहितम् । पुनः कथंभूतम् । सानन्दम् आनन्दसहितम् । पुनः किविशिष्टम् । स्वस्वभावजम् आत्मचैतन्यसंभवम् । पुनः किंभूतम् । जन्मसंततेः जन्मपरंपरायाः विपक्षं विपरीतम् इति सूत्रार्थः ।।४५।। अथ मनुष्यजन्मनोऽतिदुर्लभत्वमाह ।
46 ) जीवितव्ये-जन्मनि मनुष्यभवे अतिदुर्लभे प्रमादपरिहारेण नृणां स्वहितं विज्ञेयम् । क्व सति । जीवितव्ये सुनिःसारे सति इति तात्पर्यार्थः ।।४६॥ तत्र विचारचतुराणां कर्तव्यमाह ।
47 ) विचारचतुरैः-अत्र नृजन्मनि दक्षैः परमादरो विधेयः । किं कृत्वा । प्रमादम् उत्सृज्य त्यक्त्वा । कथंभूतैर्दक्षैः। विचारचतुरैः । पुनः कथंभूतैः । अतिक्रान्तेन्द्रियसुखलम्पटैरित्यर्थः ॥४७॥ अथ प्रज्ञाधनानां कर्तव्यमाह।
48 ) न हि काल-अहो इत्याश्चर्ये । अतिदुर्लभे नृजन्मनि प्रज्ञाधनैः एकापि कालकला न हि ज्ञेया। कथंभूतैः । विवेकेन विकलः आशयः येषां ते । तैरित्यर्थः ॥४८॥ अथ संसारस्यानित्यतामाह।
जन्मपरम्पराका विरोधी मोक्ष है और वह कर्म-कालिमासे रहित, निर्बाध, आनन्दसे परिपूर्ण एवं आत्माके स्वभावसे ही उत्पन्न होनेवाला है, इस प्रकार योगी जन उसका स्वरूप बतलाते हैं ॥४५॥
संसारी प्राणियोंके जीवनमें कुछ भी सार नहीं है। अत एव मनुष्योंका यह कर्तव्य है कि जब उन्हें अतिशय दुर्लभ मनुष्य पर्याय प्राप्त हो गयी है तो वे प्रमादको छोड़कर आत्महितको जाने और उसमें प्रवृत्त हों ॥४६॥ ___जो अपने हिताहितके विचारमें कुशल, साहसी और अतीन्द्रिय सुखके अभिलाषी हैं उन्हें प्रमादको छोड़कर इस मोक्षके विषय में अतिशय आदर करना चाहिये ॥४७॥
___ जो जन बुद्धिरूप धनसे सम्पन्न हैं उन्हें अतिशय दुर्लभ मनुष्यभवको पाकर विवेकसे रहित होते हुए कामकी एक कला ( समयका अतिशय सूक्ष्म भाग=तीस काष्ठा) को भी नहीं बिताना चाहिये ॥४८॥
१. P जन्मन्यतिवञ्चके । २. F V B C JY चतुरैर्द१र० । ३. P F B C JX Y धनैर्जेया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org