________________
ज्ञानार्णवः
[ २.७१ - 120 ) प्रच्यवन्ते ततः सद्यः प्रविशन्ति रसातलम् ।
भ्रमन्त्यनिलवद्विश्वं पतन्ति नरकोदरे ॥७१ 121 ) विडम्बयत्यसो हन्त संसारः समयान्तरे ।
अधमोत्तमपर्यायैर्नियोज्य प्राणिनां गणम् ॥७२ 122 ) स्वर्गी भवति साक्रन्दं श्वा स्वर्गमधिरोहति ।
श्रोत्रियः सारमेयः स्यात् कृमिर्वा श्वपचोऽपि वा ॥७३ 128 ) रूपाण्येकानि गृह्णाति त्यजत्यन्यानि संततम् । ___यथा रङ्गेऽत्र शैलूषस्तथायं यन्त्रवाहकः ॥७४
120) प्रच्यवन्ते ततः-ततः स्वर्गात् सद्यः शीघ्रं प्रच्यवन्ते रसातलं प्रविशन्ति । विश्वं जगत् अनिलवत् भ्रमन्ति। नरकोदरे पतन्ति। नरकप्रायोग्यकर्मबन्धं कृत्वा नरकमध्ये गच्छन्तीत्यर्थः ॥७१।। अथ संसारस्य नानापर्यायमाह ।
__121 ) विडम्बयत्यसौ-हन्त इति खेदे । असौ संसारः प्राणिनां गणं विडम्बयति । समयान्तरे आयुर्बन्धकाले अधमोत्तमपर्यायः जघन्योत्तमदेहैनियोज्य इत्यर्थः ॥७२।। अथ जीवानां गतिविपर्यासमाह।
122 ) स्वर्गा भवति-स्वर्गी देवः साक्रन्दं पतति अधोगत्यादौ । श्वा कुक्कूरः स्वर्गमधिरोहति । श्रोत्रियो ब्राह्मणोत्तमः सारमेयः श्वा भवति। वा अथवा कृमिकोटविशेषो भवति । वा पक्षान्तरे श्वपचः चाण्डाल: स्यात् । अत्र जातेः प्राधान्यं नास्ति किंतु कर्मणः इति सूत्रार्थः ॥७३।। अतो जीवस्य नटवन्नानावेशकारित्वमाह ।।
123 ) रूपाण्येकानि-अत्र रङ्गे रङ्गभूमिकायां यथा शैलूषो नटः एकानि रूपाणि
वहाँसे शीघ्र ही च्युत होकर वे पातालतल में प्रविष्ट होते हैं-कभी कोई एकेन्द्रियों में भी जाकर उत्पन्न होते हैं । इस प्रकारसे वायुके समान लोकमें परिभ्रमण करते हुए वे नरकोंके बीचमें जा पड़ते हैं ।।७१॥
खेद है कि वह संसार समयान्तरमें ही प्राणियोंके समूहको निकृष्ट और उत्कृष्ट पर्यायोंसे संयुक्त करके प्रतारित किया करता है ।।७२।।
कभी स्वर्गवासी देव तो विलाप करता हुआ नीचे गिरता है-निकृष्ट योनिमें उत्पन्न होता है- और हीन गिना जाने वाला कुत्ता स्वर्गपर चढ जाता है-देव हो जाता है। इसी प्रकार श्रोत्रिय-वेदाध्यायी ब्राह्मण कभी कुत्ता, क्षुद्र कीड़ा अथवा चाण्डाल भी हो जाता है।॥७३॥
जिस प्रकार रंगभूमिमें नट निरन्तर अनेक रूपोंको ग्रहण करता है और अनेक
१. N कृमिः स्यात् । २. P श्वपचः = चाण्डाल: । ३. P शैलूषः = नटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org