________________
५६
[२.१००
ज्ञानार्णवः 150 ) अन्यत्वमेव देहेन स्याभृशं यत्र देहिनः ।
तत्रैक्यं बन्धुभिः सार्धं बहिरङ्गः कुतस्तनम् ॥१०० 151 ) ये ये संबन्धमायान्ति पदार्थाश्चेतनेतराः।।
ते ते सर्वे ऽपि सर्वत्र स्वस्वरूपाद्विलक्षणाः ॥१०१ 15 2 ) पुत्रमित्रकलत्राणि वस्तूनि च धनानि च ।
सर्वथान्यस्वभावानि भावय त्वं निरन्तरम् ॥१०२ 153 ) अन्यः कश्चिद्भवेत्पुत्रः पितान्यः कोऽपि जायते ।
अन्येन केनचित्साधु कलत्रेणानुरज्यते ॥१०३
150) अन्यत्वमेव देहेन-यत्र संसारे देहिनो जीवस्य भृशमित्यर्थः। देहेन अन्यत्वमेव । तत्र बन्धुभिः बहिरङ्गैः बाह्यभूतैः सार्धं कथमैक्यं भवेत् । न कथमपीत्यर्थः ॥१००।। अथ सर्वेषां पदार्थानां संबन्धमाह ।
___151 ) ये ये संबन्ध-ये ये चेतनेतराः पदार्थाः संबन्धमायान्ति ते ते सर्वेऽपि पदार्थाः सर्वत्र स्वस्वरूपात् स्वचैतन्यात् विलक्षणा भिन्ना इत्यर्थः ॥१०१।। अथ परिजनस्यान्यस्वभावत्वमाह ।
152 ) पुत्रमित्रकलत्राणि-वस्तूनि संबन्धाः प्रतिक्षणं नश्यत्स्वभावानि भावय प्रति क्षणमिति भावः ॥१०२॥ एतदेवाह ।
____153 ) अन्यः कश्चित्-अन्यः कश्चित् पुत्रो भवेत् । अन्यः कोऽपि पिता ज्ञायते । अन्येन केनचित् कल त्रेण सार्धमनुरज्यते प्रीतो भवति इति तात्पर्यार्थः ॥१०३।। अथ त्रैलोक्यवर्तिपदार्थानां भिन्नत्वमाह।
इस प्रकार प्राणीकी जहाँ शरीरके साथ ही अतिशय भिन्नता है वहाँ भला बाहरी बन्धुजनोंके साथ तो उसकी एकता कहाँसे हो सकती है ? नहीं हो सकती ॥१०॥
___ जो जो चेतन और अचेतन पदार्थ सम्बन्धको प्राप्त होते हैं वे वे सब ही सर्वत्र अपनेअपने स्वरूपसे विलक्षण होते हैं-पृथक-पृथक स्वभाववाले होते हैं ॥१०॥
हे भव्य ! पुत्र, मित्र, स्त्री तथा अन्य वस्तुएँ व धन ये सब ही सर्वथा भिन्न स्वभाववाले हैं; ऐसा तू निरन्तर विचार कर ॥१०२।।
इस संसारमें अन्य कोई पुत्र होता है, अन्य कोई पिता होता है, तथा अन्य किसी स्त्रीके साथ अनुराग होता है। अभिप्राय यह है कि भिन्न-भिन्न प्राणि जो पिता, पुत्र एवं स्त्री आदिका सम्बन्ध होता है वह नियत नहीं है जो इस जन्ममें पिता-पुत्र आदि हैं वे जन्मान्तरमें भी उसी प्रकारसे पिता-पुत्र आदिके सम्बन्धको प्राप्त हों, यह प्रायः असम्भव ही है ॥१०३।।
१. All others except P कुतो भवेत् । २. S T VCY R संबन्धमायाताः । ३. VY 151 and 152 interchanged | ४.X धनान्यपि। ५. All otbers except P भावय त्वं प्रतिक्षणं । ६. LSTV C R°णानुयुज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org