________________
ज्ञानार्णवः
[ १.१५
15 ) अपाकुर्वन्ति यद्वाचः कायवाक्चित्तसंभवम् ।
कलङ्कमङ्गिनां सो ऽयं देवनन्दी नमस्यते ॥१५ 16 ) जयन्ति जिनसेनस्य वाचस्त्रविद्यवन्दिताः।
योगिभिर्याः समासाद्य स्खलितं नात्मनिश्चये ॥१६ 17 ) श्रीमद्भट्टाकलङ्कस्य पातु पुण्या सरस्वती ।
अनेकान्तमरुन्मार्ग चन्द्रलेखायितं यया ॥१७ 18 ) भवप्रभवदुर्वारक्लेशसंपातशङ्कितः ।
योजयाम्यहमात्मानं पथि योगीन्द्रसेविते ॥१८ ___ 15 ) अपाकूर्वन्ति–देवनन्दी नामाचार्यो नमस्यते। यद्वाचः कलङ्कम् अङ्गिनां प्राणिनाम् अपाकुर्वन्ति तिरस्कुर्वन्ति । कथंभूतं कलङ्कम् । कायवाक्चित्तेभ्यो जातम् ॥१५।। तदनन्तरं जिनसेनं नमति।
. 16) जयन्ति-जिनसेनस्य वाचः जयन्ति । कथंभूता वाचः । विद्यवन्दिताः, त्रयाणां विदां समाहारः विदो, तस्या भाव: त्रैविद्यं तेन वन्दिताः। लक्षणसाहित्यतर्कवेदिभिर्वन्दिता मनोवाक्कार्यनमस्कृता वा । योगिभिर्या वाचः समासाद्य प्राप्य आत्मनिश्चये आत्मानभवे न स्खलितं न व्यपस्थितम ।।१६।। तदनन्तरमकलङ्काचार्य नमस्करोति ।
___17 ) श्रीमद्भट्टाकलङ्क-श्रीमान् यो भट्टाकलङ्कः अकलङ्काचार्यः तस्य पुण्या पवित्रा सा सरस्वती वाणी पात् रक्षतु । व इति गम्यम् । यया सरस्वत्या अनेकान्तः स्याद्वादः एव मरुतां देवानां मार्गो व्योम, तत्र चन्द्रलेखायितं, चन्द्रलेखा इवाचरितमित्यर्थः ॥१७।। अथात्मानं पूर्वध्यानपथि स्थापयति ।
18 ) भवप्रभव-अहमात्मानं पथि वक्ष्यमाणे मोक्षमार्गे योजयामि। कथंभते पथि । योगोन्द्रसेविते। कथंभूतोऽहम् । भवः संसारः, तस्मात् प्रभव उत्पन्नः दुर्वारक्लेशसंघातः तेन शङ्गितः । इति श्लोकार्थः ॥१८॥ अथ कृतशास्त्रस्य परापकारत्वं दर्शयति ।
जिन देवनन्दी (पूज्यपाद ) आचार्य के वचन प्राणियोंके शरीर, वचन और मनके निमित्तसे उत्पन्न हुए कलंकको नष्ट करते हैं उनको मैं नमस्कार करता हूँ ॥१५॥
जिन जिनसेन स्वामीके वचनोंकी वन्दना तीन विद्याओं-सिद्धान्त, न्याय और व्याकरणके ज्ञाता भी करते हैं तथा जिनका आश्रय पाकर योगीजन आत्मस्वरूपसे विचलित नहीं होते हैं व जिनसेन स्वामीके वचन जयवंत होते है ।।१६।।।
जो श्रीमान् भट्टारक अकलंकदेवकी पवित्र वाणी अनेकान्तरूप आकाशमें चन्द्रकी रेखाके समान शोभायमान होती है वह हमें पवित्र करें ॥१७।।
जन्म-मरणरूप संसारमें परिभ्नमण करते हुए जो दुनिवार कष्ट हुआ है उसके आ पड़ने से भयभीत होकर मैं अपने आपको महान् ऋषियोंके द्वारा आराधित पथमें-मोक्ष अथवा ध्यानके मागेमें संयोजित करता हूँ ॥१८॥ १. LS V B CR योगिभिर्यत् । २. M N संतापशतिः । B] संघातशंकितः । T संपातपीडितं । x संपातपीडितः। LS VCR संतापपीडितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org .