________________
प्रकाशिकाटीका द्वि० वक्षरकार स. २३ कल्पवृक्षस्वरूप निरूपणम्
२१५ नामाश्चर्यकरो रसो येषां ते तथाभूताः नाम दुमगणाः प्रज्ञप्ताः । तान् द्रुमगणान् सदृष्टान्तं वर्णयति तान् वर्णयितुं दृष्टान्तमाह-'जहा से' इत्यादि । यथा येन प्रकारेण तत् प्रसिद्ध सुगन्धवरकलमशालितण्डुलविशिष्टनिरुपहत दुग्धराद्धं सुगन्धाः उत्तमगन्धयुक्ताः वरा:-प्रधानाः निर्दोषक्षेत्रकालादिसामग्रीभिः प्राप्ततण्डुलभावाः, ये कलमशालितण्डुलाः कलमशालेः तण्डुलास्ते सुगन्धवरकलमशालितण्डुलाः, तथा विशिष्टं-नीरोग-गवादिभवत्वादुत्तमगुणसम्पन्न निरुपहतं- पाकादिभिरनुपहतं च यद् दुग्धं तद् विशिष्टनिरुपहतदुग्धम्, उभयो द्वन्द्वे सुगन्धवरकलमशालि तण्डुल-विशिष्ट निरुपहत दुग्धानि तैः राद्धं-पकम, उत्तमशालितण्डुलै विशुद्धदुग्धेन च पाकनिपुणेन निष्पादितमिति भावः, तथा – शारदघृतगुडखण्डमधुमेलितम् शारदघृतगुडखण्डमधुभिः तत्र-शारदघृतं-शरदृतुभवं घृतं गुडः प्रसिद्धः खण्डं ='खाँड' इति प्रसिद्धम्, मधु-शहद इति प्रसिद्धं तैर्मेलितं योजितम् अतएव अतिरसम्-प्रशस्तरससम्पन्नम्, उत्तमवर्णगन्धवत्-प्रकृष्टवर्णगन्धसम्पन्नं परमान्नं पायसं भवेत्, अथवा-इव यथा राज्ञश्चक्रवर्तिनो निपुणैः पाककुशलैः सूपपुरुषैः पाककारिपुरुषैः सज्जितः-निष्पादितः चतुष्कल्पसेकनसिक्त इव चत्वारः कल्पाः पाकशास्त्रोक्तविधयो यत्र स चतुष्कल्पः स चासौ सेकश्चेति चतुष्कल्पसेकस्तेन सिक्तः युक्तःपाकशास्त्र विदोहि ओदनेषु कोमलतोत्पादनायै चतुरः सेककल्पान् कुर्वन्तीति बोध्यम् । तथा-कलमशालिनिर्वर्तितः कलमशालितण्डुनिष्पादितः तथा विप्रमुक्तः-पाकदोषरहितः सुपक्वः तथा सबाष्पमृदुविशदसकलसिक्थः सबाष्पाणि- बाष्पसहितानि निःसरद्वाष्पयुक्तानि मृदुनि कोमलानि विशदानि-सर्वथा तुषादिमलापगमाद्विशुद्धानि सकलानि-पूर्णानि सिक्थानि कणा यत्र सः तथा-अनेकशालनकसंयुक्तः अनेकानि बहूनि यानि शालनकानि निष्ठानकानि तैः संयुक्तः ओदनो भवेत, अथवा इव यथा परिपूर्णद्रव्योपस्कृतः-परिपूर्णानि -मोदकाङ्गभूतानि सर्वाणि यानि द्रव्याणि केसरैलावातद्राक्षादीनि तैरुपस्कृतः परिष्कृतःयद्वा तानि उपस्कृतानि निश्चितानि यत्र स तथा, तथा-सुसंस्कृतः यथामात्राग्नि तापादिनोत्तमस्कार सम्पन्नीकृतः, तथा-वर्णगन्धरसस्पर्शयुक्तः वर्णादयोऽत्राऽतिशायिनो गृह्यसमणाउसो" - इत्यादि । सातवें कल्पवृक्ष का नाम चित्ररस है । प्रथम काल में ये कल्पवृक्ष इस भरतक्षेत्र में जगह २ पर अनेक होते हैं । जैसा इनका नाम है उसी के अनुसार ये गुणोपेत है । मधुर आम्लादि रस इनका अनेक प्रकार का होता है । अथवा-आस्वादक जनों को वह रस आश्चर्यकारी होता है । इसलिये भी इन कल्पवृक्षों का नाम चित्ररस हो गया है । ये कल्पवृक्ष इस मधुरादि भेद से अनेक प्रकार के रसादि को किसी के द्वारा किये जाने पर नहीं देते हैं किन्तु इनका ऐसा ही स्वभाव है कि ये स्वभावतः ही उस प्रकार के परिणमनवाले ઠેકઠેકાણે પુષ્કળ સંખ્યા માં હોય છે. જેવું એમનું નામ તેવા જ ગુણેથી એ યુક્ત છે. મધુર અસ્લાદિ ૨૩ એમના અનેક પ્રકારના હોય છે. અથવા આસ્વાદકેના માટે તે રસ આશ્ચર્યકારી હોય છે. એથી પણ આ ક૯૫વૃક્ષે ચિત્રરસ નામથી પ્રસિદ્ધ થઈ ગયાં છે. એ કલ્પવૃક્ષ મધુર વગેરે રસકે કઈ વડે નહિ પણ સ્વતઃ સ્વભાવતઃ જ આ પ્રમાણે પરિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org